________________
करूपं तत्त्वचिन्तारूपमध्यवसानं तहवतीसि शरणदास्तेभ्यः, तथा बोधि:-जिनप्रणीतधर्मप्राप्तिस्तां तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपां दतीति बाधिदातेभ्यः, तथा धर्म-वारेमा पनि धर्मदास्तेभ्यः कथं धर्मदाः ? इत्याह-धर्म दिशन्तीति धर्मदेशकास्तभ्यः, तथा धर्मस्य नायका:-स्वामिनस्तदशीकरणातत्फलपरिभोगाच धर्मनायकातेभ्यः, धर्मस्य सारथय इव सम्यकप्रवर्तनयोगेन धर्मसारथयतेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्तहेतुयात् चतुरन्तं २ चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, तथाऽप्रतिहते-अप्रतिस्खलिते क्षायिकत्वाद् वरे-प्रधाने ज्ञानदर्शने धरन्तीति अप्रतिहतवरशानदर्शनवरास्तेभ्यः, तथा छादयति-आवरयतीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तं-अपगतं छद्म येभ्यस्ते ध्यावृत्तछयानस्तेभ्यः, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकर्मशत्रन् जितवन्तो जिनाः अन्यान जापयन्तीति जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवा| र्णवं स्वयं तीर्णा अन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्त्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ता:-कृतकृत्या निष्ठितार्था इति भावः, अन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं-सर्वोपदवरहितत्वात अचल' स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् 'अरुज' शरीरमनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्तं-केवलासनाऽनन्तलात् 'अक्षय' विनाशकारणाभावात् 'अव्याबाधं' केनापि विबाधयितुमशक्यत्वात् न पुनरावृत्तिर्यस्मात्तदपुनरावृत्ति, सिध्यन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैद गम्यमानलाद् गतिः सिद्धिगति: २ रिति नामधेयं यस्य दसिद्धिगतिनामधेयं, तिष्ठत्यस्मिन्निति स्थानं-व्यवहारतः सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं खं खरूपं, स्थानस्थानिनोरभेदोपचारात्तु सिद्धिगतिनामधेयं तत्संप्राप्तेभ्यः । एवं प्रणिपातदण्डकं पठित्वा 'चंदई नमसई' इति वन्दते-ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति
LKOAA