SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ मुक्त्वा विघाटयति विद्यायानुवाचयति अनु - परिपाट्या प्रकर्षेण - विशिष्टार्थावगमरूपेण वाचयति वाचयित्वा 'धार्मिकं' धर्मानु गतं व्यवसायं व्यवस्यति, कर्तुमभिलषतीति भावः, व्यवसाय सभायाः शुभाध्यवसायनिबन्धनत्वात् क्षेत्रादेरपि कर्म्मक्षयोपशमादिहेतुत्वात्, उक्त — "उदयक्खयखओवसभोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ १ ॥” इति, धार्मिकं च व्यवसायं व्यवसाय पुस्तकरत्नं प्रतिनिक्षिपति प्रतिनिक्षिप्य सिंहासनादभ्युतिष्ठति, अभ्युत्थाय व्यवसाय - सभातः पूर्वद्वारेण विनिर्गच्छति विनिर्गत्य यत्रैव व्यवसायसभाया एव पूर्वी नन्दापुष्करिणो तत्रैवोपागच्छति उपागत्य नन्दां पुष्करि णीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुक्ष हस्तपादौ प्रक्षालयति प्रशास्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मचकरिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावत् शतसहस्रपत्राणि तानि गृह्णाति गृहीत्वा नन्द्रातः पुष्करिणीत: प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधावितवान् गमनाय || 'तर पण 'मित्यादि, ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेव| सहस्राणि चतस्रः सपरिवारा अम्महिष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानीकाधिपतयः षोडशात्मरक्ष देवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाश्व देव्या अप्येकका उत्पलहस्तगता अप्येककाः पद्महस्तगता अध्येषकाः कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्रहस्तगताः क्रमेण प्रत्येकं वाच्याः, विजयं देवं पृष्ठतः पृष्ठतः परिपाट्येति भावः अनुगच्छन्ति ॥ 'तए ण' मित्यादि, ततस्तस्य विजयस्य देवस्य बहन आभियोग्या देवा देव्यच अप्येकका वन्दनकलशहस्तगताः अप्येकका भृङ्गारहस्तगताः अप्येकका आदर्शहस्तगताः एवं स्थालपात्रीसुप्रतिष्ठबात कर कचित्ररत्नकरण्डक
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy