________________
__'से कि तमित्यादि, अथ के ते बादराकायिकाः?, सुरिराह-वादराप्कायिका अनेकविधाः प्रज्ञप्ता:, तयथा-"ओसा हिमे महिया जाव तत्थ नियमा असंखेजा" इति, यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः-"करगे हरतणू सुद्धोदए सीओदए खट्टोदए खारोदए!* अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णता, तंजहा-पञ्चत्तगा य अपजतगा य, तत्थ णं जे ते अपजत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सम्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पचत्तगनिरसाए अपजतगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या-अवश्याय:त्रेहः, हिमं-स्त्यानोदक, महिका-गर्भमासेषु सूक्ष्मवर्ष, करको-पनोपल:, हरतनुः यो भुवमुद्धि गोधूमाकुरवृणामादिषु बद्धो बिन्दुरुपजायते, शुद्धोदकम्-अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच स्पर्शरसादिभेदादनेकभेदं, तदेवानेकभेदखं दर्शयति-शीतोदक-नदीतडागावटवापीपुष्करिण्यादिषु शीतपरिणामम् , उष्णोदक-स्वभावत एवं क्वचिनिझरादावुष्णपरिणाम, क्षीरोदकम्-ईपल्लवणपरिणाम || यथा लाटदेशादी के चित्क्टेषु, खट्टोदकम् ईषवम्लपरिणामम् , आम्लोदकम् अतीव स्वभावत एवाम्लपरिणाम काशिकवत् , लवणोदकं लवणसमुद्रे, वारुणोदकं वारुणसमुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये वयाप्रकारा रसस्पर्शादिभेदाद् धृतोदकादयो बादाप्कायिकास्ते सर्वे चादराप्कायिकतया प्रतिपत्तव्याः, 'ते समासओं इत्यादि प्रश्वात् नबरं सक्स्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि | 'तेसि णं भंते ! जीवाणं कई सरीरगा' ? इत्यादिसरकापभिवायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि,
+AR