________________
यणाणि दंड निसरंति' दण्ड इव दण्ड अधिआयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीरस्य बहिः सोयानि योजनानि यावत् + 'निसृजन्ति' निष्काशयन्ति, निसृज्य च तथाविधान पुद्गलानाददते, एतदेव दर्शयति-तद्यथा-रत्नानां' ककेंद्रनादीनां १ वाणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगलानां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानाम् ९ अजनानाम् १० अजनपुलकानां ११ रजतानां १२ जातरूपाणाम् १३ अवानां १४ स्फटिकानां १५ रिष्ठानां १६, यथाबादरान्-असारान् पुगलान परिशातयन्ति यथासूक्ष्मान्-सारान पुदलान् पर्याददते, पर्यादाय च चिकीर्षितरूपनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्य यथोक्तानां रत्नादीनां योग्यान यथाबादरान पुद्रलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च 'अष्टसहस्रम् अष्टाधिकं सहस्र सौवर्णिकानां कलशानां विकुर्वन्ति १ अष्टसहस्रं रूप्यमयानाम् २ अष्टसहस्र मणिमयानाम् ३ अष्टसहस्रं सुवर्णरूप्यमयानाम् ४ अष्टसहस्र सुवर्णमणिमयानाम् ५ अष्टसहस्रं रूप्यमणिमयानाम् ६ अष्टसहस्त्रं सुवर्णरूप्यमणिमयानाम् ७ अष्टसहस्रं भौमेयानाम् ८ अष्टसहस्रं भृङ्गाराणाम् ९, एवमादर्शस्थालपात्रीसुप्रतिष्टमनोगुलिकावातकरकचित्ररत्नकरण्डकपुष्पचनेरीयावलोमहतचङ्गेरीपुष्पपटलकयावल्लोमहस्तकपटलकसिंहासनच्छत्रचामरसमुद्रकध्वजधूपकडुच्छकानां प्रत्येक प्रत्येकमष्टसहनं विकुर्वन्ति, विकुर्विखा 'ताए उकिटाए' इत्यादि पूर्व व्याख्यातार्थ यत्रैव क्षीरोदसमुद्रस्तत्रागच्छन्ति, आगत्य च क्षीरोदकं गृहन्ति, यानि च तत्र उत्पलानि पानि कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि सहस्रपत्राणि शतसहस्रपत्राणि च तानि गृहन्ति, गृहीत्वा पुष्करोदे समुद्रे समागत्य तत्रोदकमुत्पलादीनि च गृहन्ति, तदनन्तरं यत्रैव समयक्षेत्रं यत्रैव भरतैरावतानि क्षेत्राणि | यत्रव च तेषु भरतेरावतेषु वर्षेषु मागधवरदामप्रभासाख्यानि तीर्थानि तत्रैवोपागस तीर्थोदकं तीर्थमृत्तिकां च गृहन्ति, ततो गङ्गा
---
-
64--0