________________
1
o
T
॥
दे प्रत्यवरोहति मध्ये प्रविशतीति भावः प्रत्यवरुह्य च हृदमवगाहते, अवगाह्य जलमज्जनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां करोति, तत: 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचान्तो- गृहीता चमनश्चक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात्, अत एव परमशुचिभूतो हृदात् प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव प्रदेशेऽभिषेकसभा तत्रैवोपागच्छति, उपागत्याभिषेक सभामनुप्रदक्षिणीकुर्वन् पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्र च मणिपीठिकायाः उपरि सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सनिषण्णः ।। 'तए प'मित्यादि ततस्तस्य विजयस्य देवस्य सामानिकाः पर्षदुपपन्नकाञ्च देवा: 'आभियोगिकान्' अभियोजनमभियोगः, प्रेष्यकर्म्मणि व्यापार्यमाणत्वमिति भावः, अभियोगे नियुक्ता आभियोगिकास्तान् देवान् 'श- ॥ ब्दायन्ते' आकारयन्ति, शब्दायिला च तानेवमवादिषुः – 'क्षिप्रमेव' शीघ्रमेव भो देवानां प्रियाः ! विजयस्य देवस्य 'महार्थ' महान अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थस्तं महार्थ, तथा महान् अर्थः- पूजा यत्र स महार्धस्तं, महं - उत्सवमर्हतीति महार्हस्तं 'विपुल' विस्तीर्ण शक्राभिषेकवद् इन्द्राभिषेकमुपस्थापयत || ' तए णं ते' इत्यादि, ततस्ते आभियोगिका देवाः सामानिपर्षदुपपन्नकैर्देवैरेवमुक्ताः 'हतुचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसबस बिसप्पमाणहिय्या करयलपरिग्गहिर्य दसण सिरसावत्तं मत्थए अंजलिं कट्टु' इति पूर्ववत्, विनयेन वचनं 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति कथम्भूतेन विनयेन ? इत्याह-- ' एवं देवा तहन्ति आणाएं' इति हे देवाः ! एवं यथैव यूयमादिशत तथैवाज्ञया - युष्मदादेशेन कुर्म्म इत्येवंरूपेण प्रतिश्रुत्य वचनमुत्तरपूर्व दि ग्भागमीशानकोणमित्यर्थः तस्यात्यन्तप्रशस्तत्वात् 'अपक्रामन्ति' गच्छन्ति अपक्रम्य च वैक्रियसमुद्घातेन - वैक्रियकरणाय प्रयद्भविशेपेण 'समोहणंति' समवहन्यन्ते समवद्दता भवन्तीत्यर्थः, समवहताञ्चात्मप्रदेशान् दूरतो विश्चिपन्ति तथा चाह-- संजाल