________________
'करयलपरिग्गहिय मित्यादि द्वयोईस्तयोरन्योऽन्यान्तरिवाङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा अनलिस्खां करतलाभ्यां परि
गृहीता-निष्पादिता करतलपरिगृहीता ताम् , आवर्त्तनमावर्त्तः शिरस्यावत्र्तो यस्याः सा शिरस्थावर्चा, कण्ठेकाल उरसिलोमेत्यादिवद-3 तालुकसमासः, तामत एव मस्तके कला जयेन विजयेन व पयन्ति-जय वं देव! विजय त्वं देव! इत्येवं बापयन्तीत्यर्थः, तत्र
जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च, विजयस्तु-परेषामसहमानानामभिभवोत्पादः, जयेन विजयेन च वापयित्वा' एवमवादिपु:-'एवं खलु देवाणुप्पियाण'मित्यादि पाठसिद्धम् ॥ 'तए 'मित्यादि, 'ततः एतद्वचनानन्तरं विजयो देवतेषां सामानिकप. र्षदुपपन्नकानां-सामानिकानां पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थ 'श्रुत्वा' आकर्ण्य 'निशम्य' हृदये परिणमय्य 'हतुहचित्तमाणदिए' इति सृष्टतुष्टोऽतीव तुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापनो यथा शोभनमहो! एतैरुपदिष्टमिति, 'तुष्टः' तोष कतवान यथा भन्सारमत गरिनिष्टमिनि, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टुणटु समृद्धौ' इति वचनात् , यस्य || स चित्तानन्दिवः, भार्यादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपात: मकारः प्राकृतत्वादलाक्षणिकस्तत: पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, 'पीइमणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना जिनप्रतिमाऽनविषयबहुमानपरायणमना इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्यासौ सुमनास्तस्य भावः सौमनस्यं परमं च तत् सौमनस्यं च परमसौमनस्य तत्संजातमस्मिन्निति परमसामनस्थितः, एतदेव व्यक्तीकुर्वनाह-'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पदू-विस्तारयायि हृदयं यस्य स हर्षवशविसर्पदयः देवशयनीयादभ्युत्तिष्ठति, अभ्युत्थाय च देवदूष्यं परिधत्ते, परिधाय व उपपातसमात: पूर्वद्वारेण | निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हदस्तत्रोपागच्छति, उपागत्य हदमनुदक्षिणीकृत्य पूर्वेण वोरणेन हुदमनुप्रविशति, प्रविश्य च