________________
-
-
=
'तेणं कालेणं तेणं समएणं' इत्यादि, तस्मिन् काले तस्मिन् समये विजयो देव उपपातसभायां देवशयनीये देवदूष्यान्तरिते प्रथमतोऽङ्गुलासययभागमात्रयाऽवगाहनया समुत्पन्नः ।। 'तए 'मिन्यादि, सुगमं नवरमिह भाषामन:पर्याप्योः समाप्तिकालान्तरस्य प्रायः शंषपर्याप्तिकालान्तरापेक्षया स्तोकवादेकत्वेन विवक्षगमिति पंचविहाए पजत्तीर पजत्तिभावं गच्छई' इत्युक्तम् ॥ 'तए ण'मित्यादि, ततखस्य विजयस्य देवस्य पञ्विधया पर्याप्त्या पर्याप्तभावं गतस्य सतोऽयम्-एतद्रूप: संकल्प: समुदपद्यत, कथम्भूत:? इत्याह-'मनोगतः' मनसि गतो-व्यवस्थितो माद्यापि वचसा प्रकाशितस्वरूप इति भावः, पुन: कथम्भूत: ? इत्याह-'आध्यास्मिकः' आसन्याधि अध्यासं तत्र भव आध्यामिक आत्मविषय इति भावः, सङ्कल्पश्च द्विधा भवति-कश्चिदध्यालिकोऽपरश्च चिन्तासकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह–'चिन्तितः' चिन्ता संजाताऽस्मिन्निति चिन्तितश्चिन्तात्मक इति भावः, सोऽपि | कश्चिदभिलाषालको भवति कश्चिदन्यथा, तत्रायमभिलाषालकस्तथा चाह-प्रार्थनं प्रार्थी णिजन्तादच प्रार्थः संजातोऽस्मिन्निति प्रार्थितोअभिलाषात्मक इति भावः, किंखरूपः ? इत्याह-'किं में' इत्यादि, किं 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीयं, तथा किं मे पूर्व | कर्नु श्रेयः किं मे पश्चात्कर्तुं श्रेयः, तथा कि में पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देश हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षेमायेति अयमपि भावप्रधानो निर्देशः संगतवाय, निःश्रेयसाय-निश्चितकल्याणाय अनुगामिकतायै-परम्प|रया शुभानुबन्धसुखाय भविष्यतीति ।। 'तए 'मियादि, 'ततः' एतचिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामान णियपरिसोववनगा देवा' इति सामानिकाः पर्षदुपपन्न काच-अभ्यन्तरादिपर्षदुपगताः 'इमम्' अनन्तरोक्तम् 'एतदूपम्' अनन्तरोदितस्वरूपमाध्यामिक चिन्तितं प्रार्थितं मनोगतं सङ्कल्प समभिज्ञाय 'जेगेवेति यत्रैव विजयो देवस्तयोपागच्छन्ति, सागम्य च
K-
८-