________________
-%ERRACANCS
योजने आयामविष्कम्माभ्यां योजनमेकं चाहल्येन सर्वमणिमयी अच्छा इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महामेको देवच्छन्दक: प्रज्ञप्तः सातिरेके वे योजने ऊर्द्धमुच्चस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां सर्वासना रनमया अच्छा इत्यादि प्रा. म्वत् ।। 'तत्थ प'मित्यादि, तत्र देवच्छन्दके 'अष्टशतम्' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनु:शतप्रमाणानामिति भावः सनिक्षिप्तं विष्वति ।। 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेश: प्रज्ञाप्तः, तपनीयमयानि हस्ततलपादतलानि 'अङ्कमया' अङ्करन्नमया अन्त:-मध्ये लोहिताक्षरत्नप्रतिपेका नखाः, कनकमय्यो जबरः, कनकमयानि जाननि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः, रिष्ठरत्नमय्यो रोमराजयः, तपनीयमयाः 'धुशुधाः स्तनमा , महिमनगाः श्रीमाः (बत्साः) 'शिलाप्रवालमया' विद्रुममया ओष्ठाः, स्फटिकमया दन्ताः | | तपनीयमय्यो जिह्वाः, तपनीयमयानि तालुकानि, कनकमग्यो नासिका: अन्तलोंहिताक्षरत्नप्रतिसेकाः, अङ्कमयानि अक्षीणि अन्तलाहिताक्षप्रतिसेकानि, रिष्ठरत्रमय्योऽक्षिमध्यगतास्तारिकाः, रिष्ठरत्नमयानि अक्षिपत्राणि, रिष्ठरत्नमय्यो भ्रवः, कनकमयाः कपोला:, कनकमयाः श्रवणाः, कनकमय्यो ललाटपट्टिकाः, वनमय्यः शीर्षबटिकाः, तपनीयमय्यः केशान्तकेशभूमयः, केशानामन्तभूमय: केशभूमयश्चेति भावः, रिवमया उपरि मूर्द्धजा:--केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधरपतिमा हेमरजतकुन्देन्दु (समान) प्रकाशं । सकोरिटमाल्यदामधवलमातपत्रं गृहीत्या सलील धरन्ती तिष्ठति ।। 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोढ़े द्वे चमरचारप्रतिमे प्रज्ञप्ते, 'चंदप्पभवहरवेरुलियनाणामणिरयणखचितदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो व बैडूर्य च प्रतीतं चन्द्रप्रभवश्रवैडूर्याणि शेपाणि च नानामणिरत्नानि स्वचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा:-नानाप्र