SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सादि, तस्य माणवकस्य चैत्यस्तम्भस्योपरि पद क्रोशान् अवगाय उपरितनभागात् षट् क्रोशान् वर्जयित्लेति भाषः, अधस्तादपि पद | क्रोशान वर्जयित्वा मध्येऽर्द्धपश्चमेषु योजनेषु बहवे 'सुवण्णरूप्पमया फलगा' इत्यादिफलकवर्णनं नागदन्तवर्णनं सिक्कावर्णनं च प्राग्वत् ॥ 'तेसु णमित्यादि, तेषु रजतमयेषु सिक्ककेषु बह्वो वज्रमया गोलवृत्ताः समुद्काः , तेषु च चसमयेषु समुद्केषु बहूनि जिनसक्थीनि संनिक्षितानि तिष्ठन्ति यानि विजयस्य देवस्यान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानकरणत: सत्कारणीयानि वखादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या पर्युपासनीयानि ॥'तस्स ण'मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञता, योजनमेकमायामविष्कम्भाभ्याम योजनं बाहल्येन सर्वासना मणिमयी 'अच्छा' इत्यादि प्राग्वत् ।। "तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेक सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राम्वत् ॥ 'तस्स णमित्यादि, तस्य मागव-| कनान्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महलेका मणिपीठिका प्रज्ञप्ता, एकं योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सबमणिमयी इत्यादि प्राग्वत् ॥ 'तीसे 'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र मह देकं (देव) शयनीय प्रज्ञानं, तस्य च देवशयनीयस्यायमेतद्रूपः 'वर्णावासा' वर्णकनिवेशः प्रज्ञप्तः, तथथा-नानामणिमया: प्रतिपादा:-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादा: प्रतिपादाः 'सोवर्णिकाः' सुवर्णमयाः 'पादाः' मूलपादाः, जाम्बूनदमयानि गात्राणि-ईषादीनि वनमया वरत्नपूरिता: सन्धयः, 'नानामणिमये चिच्चे' इति चिचं नाम च्युतं वानमित्यर्थः, नानामणिमयं च्युत-विशिष्टवानं रजतमयी तुली लोहिताक्षमयानि 'बिनबो. यणा' इति उपधानकानि, आह च मूलटीकाकार:-विञ्बोयणा-उपधानकानि उच्यन्त" इति, तपनीयमययो गण्डोपधानकाः॥
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy