SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 4%AKRASTAR |'से णं देवसयणिज्जे इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिक' सह आलिङ्गनवा -शरीरप्रमाणेनोपधानेन यद् तत्तथा 'उभओविठयोयणे' इति उभयत:-उभौ-शिरोऽन्तपादान्तावाश्रित्य विव्वोयणे--उपधाने यत्र तद् उभयतोविन्वोयणं 'दुहतो उन्नते' इति । उभयत उन्नतं 'मज्णयगंभीरे' इति, मध्ये च नतं निम्नत्वाद् गम्भीरं च महत्त्वात् नतगम्भीरं गङ्गापुलिनवालुकाया अबदालो-विद|लनं पादादिन्यासेऽधोगमनमिति भावः तेन 'सालिसए' इति सदशक गङ्गापुलिनवालुकावदालसदृशं, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौम-काासिकं दुकूल-वलं तदेव पट्ट ओयवियक्षौमदुकूलपट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगरू-1 ययूरनवणीयतूलफासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्ताशुकसंवृतम् , अत एव सुरम्य 'पासाइए' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तस्स णमित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्राप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सबमणिमयी अच्छा' इत्यादि प्राग्वत् ।। 'तीसे 'मित्यादि, तस्या मणिपीठिकाया उपरि । अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजबद्वक्तव्यः । 'तस्स णमित्यादि, तस्य क्षुल्लकस्य महेन्द्रध्वजस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान् एकचोप्पालो नाम 'प्रहरणकोशः' प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्टमित्याह'सञ्चवरामए अच्छे जाव पडिरूवे' इति प्राग्वत् ।। 'तत्थ ण'मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरमप्रमु| खाणि प्रहरणरत्नानि संक्षिमानि तिष्ठन्ति, कथम्भूतानीत्यत आह-उज्वलानि-निर्मलानि सुनिशितानि-अतितेजितानि अत एव | वीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् ॥'तीसे णं सभाए' इत्यादि, तस्याः सधायाः सभाया उपरि बहून्यष्टावष्टी मङ्गलकानि, इत्यादि सर्व प्राग्वत्तावक्तव्यं यावदहवः सहस्रपत्रहस्तकाः सर्वरनमया अच्छा यावत्प्रतिरूपाः ॥
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy