________________
AR
*%
पण्णत्ता, तंजहा-पञ्चत्तगा य अपज्जचगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पजचगा एएसिणं वण्णादेसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पजत्तगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तस्थ नियमा असंखेजा" इति, अस्य व्याख्या-ऋष्यामृत्तिका-कृष्णमनिकारूणा, एवं नीललोहितहारिवशुभेदा अपि वाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदासका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, 'पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदासका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् ॥'से किं तमित्यादि । अथ के वे खरबावरपृथिवीकायिका: ?, सूरिराह-खरबादरपृथिवीकायिका अनेकविधाः प्रज्ञप्ताः, चत्वारिंशद्वेदा मुख्यतः प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशद्वेदा-| नाह, तंजहा-'पुढवी'त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपूथिवी नदीतटभित्त्यादिरूपा १, चशब्द उत्तरापेक्षया समुच्चये, शर्करा-लघूपलशकलरूपा २, वालुका-सिकता ३, उपल:-टवायुपकरणपरिकर्मणायोग्यः पाषाण: ४, शिलाघटनयोग्या देवकुलपीठाद्यपयोगी महान् पाषाणविशेष: ५, लवणं-सामुद्रादि ६, ऊपो यशादूपरं क्षेत्रम् ७, अयस्ताम्रपुसीसक(रूप्यसुवर्णानि प्रतीतानि १३, वसो-हीरक: १४, हरितालहि कुलमनःशिलाः प्रतीताः १७, सासगं-पारदः १८, अशनं सौवीरा| अनादि १९, प्रवालं-विठ्ठमः २०, अभ्रपटलं-प्रसिद्धम् २१, अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२, 'बायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायभेदखेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति-गोमेजए य' इत्यादि, गोमेजकः २३, 'च: समुच्चये, रुचक: २४ अ: २५