________________
विक्षु एकैकस्यां दिशि एकैकभावेन चखारिं त्रिसोपानप्रतिरूपकाणि - प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि त्रिसोपान वर्णकः पूर्ववद्वक्तव्यः तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञप्तं तेषां च तोरणानां वर्णनं प्राग्वद्वक्तव्यम् ॥ ' तस्स ण' मित्यादि, 'तस्य' उपकारिकायनस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानामए' इत्यादि भूमिभागवर्णनं प्राग्वचावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य वद्धमध्यदेश भागेऽत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वाषष्टिर्योजनानि अर्द्ध च योजनमूर्द्धमुचैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं चायामविष्कम्भाभ्याम्, 'अब्भुग्गयमूसिय पहसियाविवेत्यादि, तस्य वर्णनं मध्ये भूमिभागवर्णनं सिंहासनवर्णनं शेपाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारबहिः स्थितप्रासादचद्भावनीयानि || 'तस्स ण' मित्यादि, तस्य मूळप्रासादावतंसकस्य वहुमध्यदेश भागेऽत्र महती एका मणिपीठिका प्रप्ता, सा बैकं योजनमायामविष्कम्भाभ्यामर्द्धयोजनं चाहल्येन 'सच्यमणिमयी' इति सर्वासना मणिमयी 'अच्छा सहा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'ती से ण' मित्यादि, तस्या मणिपीठिकायाः उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि || 'से ण' मित्यादि, स च मूलप्रासादावतंसकोऽन्यैश्चतुर्भिर्मूलमासादावतंस कैस्तद्धत्व प्रमाण[ मात्रै:- मूलप्रासादावतंसकाद्धयत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्तः, तदर्दोशलप्रमाणमेव दर्शयति-- एकत्रिंशतं योजनानि क्रोशं चैकमूर्द्धमुस्लेन, पञ्चदश योजनानि तृतीयांश्च कोशान् आयामविष्कम्भाभ्यां तेषामपि 'अम्मुग्गयमूसिय पहसियाविवेत्यादि स्वरू पवर्णनं मध्ये भूमिभागवर्णनमुलोकवर्णनं च प्राग्वत् ॥ 'तेसि ण'मित्यादि तेषां प्रासादावतंसकानां बहुमध्यदेश भागे प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र सिंहासनानां शेषाणि परिवारभूतानि न वक्तव्यानि ।। ' ते णं पासा -