________________
भावा' इतिपरिग्रहः पल्योपमस्थितिका: परिवसन्ति, तद्यथा-'असोए' इत्यादि, अशोकवनेऽशोक: सप्तपर्णवने सप्तपर्णः पम्पकवने || चम्पक: चूतवने चूतः ॥ 'तीस ण मि(तत्थ ण ते ५) त्यादि, ते अशोकादयो देवास्तस्य वनखण्डस्य स्वस्थ प्रासादावतंसकस्य, सूत्रे
बहुवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययो भवतीति, स्वषां स्वेषां सामानिकसहस्राणां स्वासां स्वासामग्रमहिषीणां सपरिवाराणो स्वासां स्वासां पर्षदां खेषां स्वेषामनीकानां (अनीकाधिपतीनां) स्वेषां तेषामामरक्षकाणाम् 'आहेवञ्चं पोरेवच'मित्यादि प्राग्वत् ॥ "विजयाए ण'मित्यादि, विजयाया राजधान्या अन्तर्बहुसमरमणीयोभूमिभागः प्रज्ञतः, तस्य से जहानामए आलिंगपुक्खरेद वा' इत्यादि वर्णन प्राग्वत् निरवशेषं तावद्वक्तव्यं यावन्मणीनां स्पर्श:, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महद् एकमुपकारिका-18 लयनं प्रज्ञान, राजधानीस्वामिसस्कप्रासादावतंसकादीन् उपकरोति-उपष्टनातीत्युपकारिका-राजधानीस्वामिसत्कप्रासादावतंसकादीनां | पीठिका, अन्यत्र त्वियमुपकार्योंपकारकेति प्रसिद्धा, उक्तञ्च-गृहस्थानं स्मृतं राज्ञामुपकार्योपकारका” इति, उपकारिकालयनमिव | उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्या, त्रीणि योजनसहस्राणि सप्त योजनशतानि 5 पञ्चमवतानि-पञ्चनवत्यधिकानि किच्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तादि, परिक्षेपपरिमाणं चेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम् , अर्द्धक्रोशं-धनु:सहस्रपरिमाणं बाहल्येन 'सव्यजंबूणयामए' इति सर्वासना जाम्बूनदयम् , 'अच्छे' इत्यादि विशेषणजातं प्राग्वत्॥ 'से 'मित्यादि, 'तद' उपकारिकालयनम् एकया पावरवेदिकया तत्पृष्ठभाविन्या एकेन च बनषण्डेन 'सर्वतः सर्वासु दिक्षु |'समन्ततः सामस्येन संपरिक्षिप्तं, पद्मवरवेदिकावर्णको वनपण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्थ बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति जाव विहरंति' इति । 'तस्स णमित्यादि, तस्य उपकारिकालयनस्थ 'चउदिर्सिति चतुर्दिशि चतसृषु