________________
इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजनं चोर्द्धमुचैस्त्वेन, एकत्रिंशतं योजनानि कोशं च विष्कम्भतः, 'तात्रयं |चेव पवेसेणं' एतावदेव - एकत्रिंशद् योजनानि कोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथुभियागा' इत्यादि द्वारवर्णनं निरवशेषं तावद्वक्तव्यं यावद्वनमालावर्णनम् । 'तेसि णं दाराणमित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ 'प्रकण्डकौं' पीठविशेष प्रशप्तौ, ते च प्रकण्टकाः प्रत्येक मेकत्रिशतं योजनानि क्रोशमेकं च आयामविष्कम्भाभ्यां पञ्चदश योजनानि अतृतीयांश्च क्रोशान् बादल्येन 'सव्त्रवइरामया' इति सर्वात्मना ते प्रकण्ठका वारत्नमया: 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत् ॥ ' तेसिं पगंठगाण' नित्यादि, तेषां प्रकण्ठकानामुपरि प्रत्येकं 'प्रासादावतंसकः' प्रासादविशेषः प्रज्ञप्तः ॥ 'ते जं पासायवर्डेसगा' इत्यादि, ते प्रासादावतंसका एकत्रिशतं योजनानि कोशं चैकमूर्द्धमुरत्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशाम् आयामविष्कम्भाभ्यां तेषां च प्रासादानाम् 'अब्भुग्गयमूसियर हसियाविव' इत्यादि सामान्यतः स्वरूपवर्णनम् उल्लोकवर्णनं मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजय दूष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत्त्, शेषमपि तोरणादिकं विजयद्वारवदिनाभिर्वक्ष्यभाषाभिर्गाथाभिरनुगन्तव्यं, ता एव गाथा आह- 'तोरणे 'त्यादि गाथात्रयं, द्वारेषु प्रत्येकमेकैकस्यां नैषेधिक्यां द्वे द्वे तोरणे वक्तव्ये, तेपांच तोरणानामुपरि प्रत्येकमष्टाष्टौ मङ्गलकानि तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः, तदनन्तरं तोरणानां पुरतः शालभखिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो हयसम्राटावयः समादा वक्तव्याः ततो हयपङ्कपादयः पतयस्तदनअन्तरं हयवीध्यादयो वीथयस्ततो ह्यमिथुनकादीन्दि मिथुनानि ततः पद्मलतादयो लताः ततः 'सोत्थिया' चतुर्दिक्सौवस्तिका बक्त व्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्ततः स्थालानि ततः पाभ्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु