SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयोजनं चोर्द्धमुचैस्त्वेन, एकत्रिंशतं योजनानि कोशं च विष्कम्भतः, 'तात्रयं |चेव पवेसेणं' एतावदेव - एकत्रिंशद् योजनानि कोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथुभियागा' इत्यादि द्वारवर्णनं निरवशेषं तावद्वक्तव्यं यावद्वनमालावर्णनम् । 'तेसि णं दाराणमित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ 'प्रकण्डकौं' पीठविशेष प्रशप्तौ, ते च प्रकण्टकाः प्रत्येक मेकत्रिशतं योजनानि क्रोशमेकं च आयामविष्कम्भाभ्यां पञ्चदश योजनानि अतृतीयांश्च क्रोशान् बादल्येन 'सव्त्रवइरामया' इति सर्वात्मना ते प्रकण्ठका वारत्नमया: 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत् ॥ ' तेसिं पगंठगाण' नित्यादि, तेषां प्रकण्ठकानामुपरि प्रत्येकं 'प्रासादावतंसकः' प्रासादविशेषः प्रज्ञप्तः ॥ 'ते जं पासायवर्डेसगा' इत्यादि, ते प्रासादावतंसका एकत्रिशतं योजनानि कोशं चैकमूर्द्धमुरत्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशाम् आयामविष्कम्भाभ्यां तेषां च प्रासादानाम् 'अब्भुग्गयमूसियर हसियाविव' इत्यादि सामान्यतः स्वरूपवर्णनम् उल्लोकवर्णनं मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजय दूष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत्त्, शेषमपि तोरणादिकं विजयद्वारवदिनाभिर्वक्ष्यभाषाभिर्गाथाभिरनुगन्तव्यं, ता एव गाथा आह- 'तोरणे 'त्यादि गाथात्रयं, द्वारेषु प्रत्येकमेकैकस्यां नैषेधिक्यां द्वे द्वे तोरणे वक्तव्ये, तेपांच तोरणानामुपरि प्रत्येकमष्टाष्टौ मङ्गलकानि तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः, तदनन्तरं तोरणानां पुरतः शालभखिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो हयसम्राटावयः समादा वक्तव्याः ततो हयपङ्कपादयः पतयस्तदनअन्तरं हयवीध्यादयो वीथयस्ततो ह्यमिथुनकादीन्दि मिथुनानि ततः पद्मलतादयो लताः ततः 'सोत्थिया' चतुर्दिक्सौवस्तिका बक्त व्यास्ततो वन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्ततः स्थालानि ततः पाभ्यस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy