________________
सिंहासने प्रज्ञाप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् ॥'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'रूप्यच्छदे' रूप्याच्छादने छन्ने प्रज्ञप्ते, तानि च छत्रागि वैडूर्यरत्रमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि वरनापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-असहस्रसयाका वरकाञ्चनशलाका-वरकाञ्चनमथ्यः शलाका येषु तानि अष्टसहस्रवरकञ्चनशलाकानि 'दहरमलयसुगन्धिसम्बोउयसुरहिसीयलच्छाया' इति दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये मलय इति-मलचोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेषां अष्टानां मङ्गलानां भक्त्या-विच्छित्या चित्रं-आलेखो येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकार:-चन्द्राकृतिः स उपमा येषां दानि तथा चन्द्रमण्डलद्वृत्तानीति भावः ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवइरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:-चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवबैंडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , तथा 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखककुंददगरयअमयमाहियफेणपुंजसंनिकासाओ' इति शङ्कः-प्रतीवोऽहो-नविशेषः कुन्देति-कुन्दपुष्पं दकरज:-उदककणाः अमृतमथितफेनपुख:-क्षीरोदजलमथनसमुत्थफेनपुखस्तेषामिव संनिकाश:प्रमा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ॥ 'तेसिण'मित्यादि, तेषां तोरणानां पुरतो द्वी द्वौ 'तैलसमुद्रको सुगन्धितैलाधारविसषौ, उक्तं च जीवाभिगममूलटीकायां-तैलसमुद्रको सुगन्धितलाधारौ एवं क्रोधादिसमुद्का अपि वाध्याः, अत्र