________________
I केसीओ' इति असिता:-कृष्णा: केशा यासां सा असितकेश्यः 'मिउविसयपसत्यलक्खणसंवेल्लियग्गसिरयाओ' मृदव:-कोमला |
विशदा-निर्मला: प्रशस्तानि-शोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्त लक्षणाः संवेलितं-संवृतमग्रं येषां शेखरककरणात् ते संवेल्लितामाः शिरोजा:-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेसिताप्रशिरोजाः 'नाणामल्लपिणद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामास्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिवर्शनात् , 'मुहिगेज्झसुमम्झा' इति मुष्टिमाझं सुष्ठ-शोभनं मध्यं-मध्यभागो यासां ता मुष्टिग्राह्यसुमध्या: 'आमेलगजमलजुगलबट्टियअन्भुण्णयपीणरइयसंठियपओहराओ' पीनं-पीवरं रचितं संस्थित-संस्थानं यकाभ्यां तो पीनरचिलसंस्थितौ आमेलक-आपीडः शेखरक इत्यर्थः तस्य यमलं-समश्रेणीकं युगलं तद्वत् वनिती-बद्धखभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थितौ च पयोधरौ । यासां तास्तथा, 'ईसिं असोगवरपायवसमुठियाओ' इति ईषत्-मनाक् अशोकवरपादपे समवस्थिता-आश्रिता ईपदशोकव-|| रपादपसमवस्थिताः, तथा वामहस्तेन गृहीसममं शालायाः-शाखाया अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीतामशाला:, 'इंसिं अडच्छिकडक्वचिट्ठिएहिं लूसेमाणीओ विवेति ईषत्-मनाग 'अड्डे'तिर्यग्वलितम् अक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्य। इव सुरजनानां मनांसि "चक्खुल्लोयणलेसेहि य अण्णमण्णं विज्ोमाणीओ इव' अन्नमनं-परस्परं चक्षुषां लोकनेन-अवलोकनेन लेशा:-संश्लेषास्तैर्विध्यमाना इव, किमुक्तं भवति ?-एवं नाम तास्तियरबलिताक्षिकटाक्षः परस्परमबलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनत स्तिर्यग्वलिताक्षिकटाक्षैः परस्पर खिद्यन्त इति 'पुढविपरिणामाओं' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाओ' इति चन्द्रवद आनन-मुखं यासां साश्चन्द्राननाः 'चंदविलासिणीओ' इति चन्द्रवन्मनोहर