________________
इन्द्र
****5*
KARNAGAR
मणयो-नानामणिमयानि दामानि-मालास्तरलङ्कृतं नानामणिदामालकृतम् अन्तर्वहिश्च 'श्लक्ष्ण' लक्ष्णपुगलस्कन्धनिर्मापितं 'तवणिजवालुयापत्थडे' इति तपनीया:-तपनीयमय्यो या वालुका:-सिकतास्तासा प्रस्तदः-प्रस्तारो यस्मिन् तत्तथा, 'सुइफासे सस्सिरीयरूवे पासाईए जाव पडिरूवें इति प्राग्वा । 'विजया क्षारसा सावि, विजयरस आमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैक-|| नषेधिकीभावेन 'वुहतो' इति द्विधातो द्विप्रकारायां नैषधिक्यां, नैषेधिकी-निषीदनस्थानम् , उक्तं च मूलटीकाकारेण-नैधिकी नि-16 पीदनस्थान"मिति प्रत्येक द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, ते च चन्दनकलशाः 'वरकमलपइहाणा' इति वर-प्रधानं यत्कमलं तत्प्रतिष्ठानआधारो येषां ते वरकमलप्रतिष्टानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरागाः 'आविद्धकंठेगुणा' इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति
पिधानं येषां ते पद्मोत्सलपिधानाः 'सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया इति अतिशयेन महान्तो महेन्द्रकुम्भसमाना:, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणा: प्राप्ताः हे श्रमण! हे आयुष्मन्! ।। 'विजयस्स 'मित्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनषेधिकीभावेन विधातो नैषेधिक्यां द्वौ द्वौ नागदन्तकौ'नर्कुटको अङ्कटकावित्यर्थः प्राप्ती, ते च नाग| दन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानि-गवाक्षादिरनविशेषदामसमूहा: यानि च किङ्किणी-शुद्रघण्टा किङ्किणीजालानि-क्षुद्रघण्टा(सक्वाता)स्तैः परिक्षिप्ता:-सर्वतो व्याप्ताः 'अब्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गता अभिमभागे मनाग उन्मता
*