________________
आगतानि, कदाचित् चतसृभ्यः कदाचित्पश्वभ्यः, कात्र भावना ? इति चेदुच्यते-इह लोकनिष्कुटे पर्यन्तेऽवस्त्यप्रतरानेयकोणावस्थितो यदा सूक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिलाभाव: आग्नेयकोणावस्थितत्वात् पूर्वदिपुत्रलाभावो दक्षिणदिकुपुद्गलाभावश्च, एवमधः पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्ध्वाऽपरोतरा च दिगव्याहता वर्चते तत्र आगतान् पुद्गलानाहारयन्ति यदा पुनः स एव पृथिवीकायिकः पश्चिमां दिशमनुसृत्य वर्त्तते तदा पूर्वा दिग भ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याइते इति स चतुर्दिगागतान् पुगलानाहारयति यदा पुनरु द्वितीयादिप्रतरगत पश्चिम दिशमवलम्ब्य तिष्ठति तदाऽवस्यापि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्त्तिनी अलोकेन व्याहतेति पचदिगागतान् मुगलानाहारयति । 'वण्णतो' इत्यादि वर्णतः कालनीललोहितद्दारिद्रशुद्धानि गन्धतः सुरभिगन्धानि दुरभिगन्धानि वा, रसवस्तिकानि यावन्मधुराणि स्पर्शत: कर्कशानि यावद्र्क्षाणि तथा तेषामाहार्यमाणानां पुगलानां 'पुराणान्' अप्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् 'विपरिणामहत्ता परिपालइत्ता परिसाउइता परिविद्धसइत्ता' एतानि चत्वार्यपि पदान्येकार्थिकानि विनाशार्थप्रतिपादकानि नानादेशज विनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह - अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्यात्मशरीरक्षेत्रावगाढा पुगलान् 'सन्वप्पणयाए' सर्वासना - सर्वैरेवात्मप्रदेौराहा रमाहाररूपान् पुगलानाहारयन्ति ।। गतमाद्दारद्वारं, साम्प्रतमुपपातद्वारमाह – 'ते णं भंते' इत्यादि, ते भदन्त ! सूक्ष्मपृथिवी कायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उद्धृत्योत्पद्यन्ते ?, किं नैरयिकेभ्यः ? इत्यादि प्रतीतं, भगवानाह - गौतम! तो नैरयिकेभ्य इत्यादि पाठसिद्धं, नवरं देवनैरयिकेभ्य उत्पादप्रतिबेधो देवनैरयिकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात् 'जहा वतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा