________________
गप्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति?, अयमत्राभिप्राय:-सूक्ष्मपृथिवीकायिका प्रनन्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त कालं यावदुपभोगोचितानि गृहन्ति, ततः संशय:-किमुपभोगोचितस्य कालस्थान्तर्मुहूर्तप्रमाणस्यादौप्रथमसमये आहारयन्ति उत मध्ये-मध्यसमयेपु आहोश्वित् पर्यवसाने-पर्यवसानसमये!, भगवानाह-गौतम! आदावपि मध्येऽपि पर्यवसानेऽन्याहारयन्ति, किमुक्तं भवति ?-उपयोगोचितकालस्यान्तर्गदर्नप्रमाणम्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त! आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! कि खविषयानि-वोचिताहारयोग्यान्याहारयन्ति उताविषयानि-वोचिता-1 हारायोग्यान्याहारयन्ति !, भगवानाह-गौतम! खविषयाण्याहारयन्ति नो अविषयाणि । यानि भदन्त ! खविषयाण्याहारयन्ति तानि भदन्त ! किमानुपूर्ताऽऽहारयन्ति अनानुपूर्ला ?, भानुपूर्वी नाम यथाऽऽसनं, तद्विपरीताऽनानुपूर्वी, भगवानाह-गौतम ! आनुपूा, सूत्रे द्वितीया तृतीयाथै वेदितव्या प्राकृतवान् , यथाऽऽचाराने "अगणि पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्ध्या ऊर्ध्वमस्तिर्यग्वा, यथाऽऽसन्नं नातिक्रम्याहारयन्तीति भावः । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं तिदिसति तिस्रो दिशः समा
तानिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि षड्दिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदेऽपि [-जीवावगाहक्षेत्रत्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा, अतनिदिश्यारभ्य प्रमः कृतः, भगवानाह-गौतम! 'निवाघाएणं छहिसि'मित्यादि, व्याघातो नामालोकाकाशेन प्रतिस्खलनं व्याघावस्याभावो निर्व्याधातं 'शब्दप्रथादावव्ययं पूर्वपदार्थे नित्यमव्ययीभाव' इत्यध्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽवाम्भावः, नियमाद्-अवश्यतया पदिशि व्यवस्थितानि, षड्भ्यो दिग्भ्य आगतानीति भावः, द्रव्याण्याहारयन्ति, व्याधातं पुनः प्रतीत्य लोकनिष्कुटादौ स्वात्कदाचित्रिदिशि-तिसृभ्यो दिग्भ्य
कटक