SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 'जंबुद्दीवरस णं भंते!" इत्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त ! द्वीपस्य कंति द्वाराणि प्रज्ञप्तानि ?, भगवानाह - गौतम! चत्वारि द्वाराणि प्राप्तानि तद्यथा - विजयं वैजयन्तं जयन्तमपराजितं च || 'कहि णं भंते!" इत्यादि, क भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रशमं १, भगवानाह गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य ' पुरच्छिमेणं'ति पूर्वस्यां दिशि पञ्चचत्वारिंशद्बोजन सहस्रप्रमाणया 'अबाधया' अपान्तरालेन यो जम्बूद्वीपस्य 'पुरच्छि मे पेरते' इति पूर्वः पर्यन्तो लवणसमुद्रपूर्वार्द्धस्य 'पत्थ मेणं' ति पश्चिमे भागे शीताया महानद्या उपरि 'अत्र' एतस्मिन् प्रदेशे जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम्, अष्टौ योजनानि उच्चैस्त्वेन चत्वारि योजनानि विष्कम्भेन, 'तावइयं चेव पवेसेणं'ति तावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूतमित्यर्थः, 'सेट' इत्यादि, 'श्वेतं' श्वेतवर्णोपेतं बाहुल्येनाङ्करत्नमयत्वात् 'वरकणगथ्रुभियाए' इति घरकनका - वरकनकमयी स्तूपिका-शिखरं यस्य तद् वरकनकस्तूपिकाकम् 'ईहा मियवस भतुरगनर मगर विगत्रालग किन्नररुरु सरभ चमरकुंजरवणलय पडमलयभत्तिचित्ते संभुग्गगयवरवेइयापरिगयाभिरामे विजाहरजमलजुगल जंतजुत्ते इव अशी सहस्समालणीए रूबगसहस्सकलिए मिसमाणे भिभिमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयरूवे' इति विशेषणजावं प्राग्वत् । 'वण्णो दारस्स तस्सिमो होइ' इति 'वर्णः ' वर्णकनिवेशो द्वारस्य 'तस्य' विजयाभिधानस्य 'अयं' वक्ष्यमाणो भवति, तमेवाह - 'तंज' त्यादि, तद्यथा-वशमया नेमा - भूमि - भागादूर्द्ध निष्कामन्तः प्रदेशा रिष्ठमयानि प्रतिष्ठानानि - मूलपादाः 'वेरुलियरुइलखंभे' इति बैडूर्या - त्रैर्यरत्नमया रुचिराः स्तम्भा यस्य तद् वैहूर्यरुचिरस्तम्भं 'जायरुयोवचियपवरपंचवण्णमणिरयणकुट्टिमतले' इति जातरूपेण - सुवर्णेनोपचितैः--युक्तैः प्रवरैः -प्रधानैः पञ्चवर्णैर्मणिभिः- चन्द्रकान्तादिभिः रतैः कर्केतनादिभिः कुट्टिमतलं - बद्धभूमितलं यस्य तत्तथा 'हंसगन्धमए एलुगे'
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy