________________
तथा वर्त्तन्त इति भाव: 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति 'मोहन्ति' मैथुन सेवां कुर्वन्ति, इत्येवं 'पुरा पोराणाज 'मित्यादि, 'पुरा' पूर्व प्राग्भवे इति भावः कृतानां कर्म्मणामिति योग:, अत एव पौराणानां सुचीर्णानां सुचरिताना मितिभावः, इह सुचरितजनितं कम्मपि कार्ये कारणोपचारात्सुचरितमिति विवक्षितं ततोऽयं भावार्थ:- विशिष्टतथाविधधर्मानुछान विषयाप्रमाद करणान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम्, अत्रापि कारणे कार्योपचारात् सुपराक्रान्तजनितानि कर्माण्येव सुपराक्रान्तानि इत्युक्तं भवति, सफलसत्त्व मैत्री सत्यभाषणनर द्रव्यानपहार सुशीलादिरूपमुपराक्रमजनितानामिति, अत एव शुभानांशुभफलानाम्, इह किश्चिदशुभफलम पीन्द्रिय मतिविपर्यासात् शुभफलमाभाति ततस्तान्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह - 'कल्याणानां' तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनाम्, अथवा कल्याणानाम् अनर्थोपशमकारिणां कल्याणं- कल्याणरूपं फलविपार्क 'पच्चणुभवमाणा' प्रत्येकमनुभवन्तः - 'विहरन्ति' आसते ।। तदेवं पद्मवरवेदिकाया बहियों वनखण्डस्तद्वक्तव्यतोता, सम्प्रति तस्या एव पद्मवर वेदिकाया अर्वाग् जगत्या उपरि यो वनखण्डस्तद्वक्तव्यतामभिधित्सुराह - 'तीसे णं जगतीए' इत्यादि, तस्या ज गत्या उपरि पद्मवरवेदिकाचा 'अन्तः' मध्यभागे अत्र महानेको वनपण्डः प्रज्ञप्तः 'देसोणाई दो जोयणाई विक्खंभेण' मित्यादि सर्व बहिर्वनखण्डवदविशेषेण वक्तव्यं, नवरमत्र मणीनां तृणानां च शब्दो न वक्तव्यः पद्मवरवेदिकान्तरिततया तथाविधवाताभावतो म जीनां तृणानां च चलनाभावतः परस्परसंघर्षाभावात् तथा चाह - "वणसंडवण्णतो सद्दवज्जो जाव विहरति" इति ॥ सम्प्रति जम्बूद्वीपस्य द्वारसयाप्रतिपादनार्थमाह
"
igerate णं भंते! दीवस्स कति द्वारा पण्णत्ता ? गोयमा ! चत्तारि द्वारा पण्णत्ता, तंजहा