________________
सुखोत्तारा: ततः पूर्वपदेन विशेषणसमासः 'नाणामार्णतित्थसुबद्धाओ' इति नानामणिभिः - नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः अत्र बहुब्रीहावपि क्तान्तस्य परनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, 'चरक्कोणाओ' इति चत्वारः कोणा यस्यां सा चतुष्कोणाः एतच विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं तेषामेव चतुष्कोणस्त्वसम्भवात् न शेषाणां तथा आनुपूर्वेण - क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्टु-अतिशयेन यो जातो चनः - केदारो जलस्थानं तत्र गम्भीरं - अलब्धस्थानं शीतलं जलं यासु ता आनुपूर्व्यं सुजातबप्रगम्भीरशीतलजला : 'संछण्णपत्तभिसमुणालाओ' संछन्नानि - जळेनान्तरितानि पत्रविमृणालानि यासु ताः संभपत्रबिसमृणाला, इह बिसमृणाल साहचर्यात्पत्राणि - पद्मिनीपत्राणि द्रष्टव्यानि बिसानि -कन्दा मृणालानि - पद्मनालाः, तथा बहुभिरुत्पलकुमुदन लिन सुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्र केसरफुल्लोपचिताः, तथा षट्पदैः - भ्रमरैः परिभुज्यमानाति कमलानि उपलक्षणमेतत् कुमुदादीनि च यासु ताः षट्पदपरिभुज्यमान कमलाः, तथाऽच्छेन- स्वरूपतः स्फटिकबन्छुद्धेन विमलेन - आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा 'पडिहत्था' अतिरेकिता: अतिप्रभूता इत्यर्थः " पडिहत्थमुदुमायं अहिरेइयं च जाण आउण्णं" इति वचनात् उदाहरणं चात्र- "घणपडिहस्थं गयणं सराई नवसलिलसुह ( उ ) मायाई । अहिरेइयं महं उण चिंताएँ मणं तुहं विरहे ॥ १॥” इति भ्रमन्तो मत्स्यकच्छपा यत्र ताः पढिहत्थभ्रमन्मत्स्य कच्छपाः, तथाऽनेकैः शकुनमिथुनकैः प्रविवरिता- इतस्ततो गमनेन सर्वतो व्याप्ता अनेकशकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरः पङ्क्तिपर्यवसानाः प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम्, अन्त्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां पञ्चात्प्रत्येकशब्दस्य द्विर्वचनमिति, पावर बेदिकया परिक्षिप्ताः प्रत्येकं वषण्डपरिक्षिप्ताश्च 'अप्पेगतियाओ' इत्यादि, अपिर्वाढार्थे बाढमेकका:- काञ्चन