________________
नास्तुरगास्ते सुष्ठु - अतिशयेन सम्यक् प्रयुक्ता - योत्रिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः, प्राकृतत्वादू बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्म्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको-क्षः सारथिस्तेन सुधु सम्यक्परिगृहीतस्य, तथा 'सरसयबत्तीस तोणमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च-गाणाश्रयाः शरशतद्वात्रिंशतोणानि तैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, क्रिमुक्तं भवति ?- एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तुष्णानि रथस्म सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि तस्य सङ्क्रामायोपकल्पितस्थातीव मण्डनाय भवन्तीति तथा कङ्कटं-कमचं सह कङ्कटं य 1 स सङ्कटः सकटोऽवतंसः - शेखरो यस्य स सङ्कटावतंसस्तस्था तथा सह चापं येषां ते सचापा ये शरा यानि व कुन्तभलिमुषण्डिप्रभृतीनि नानाप्रकाराणि यानि नयनसेटपटुखापि आवरजा तैर्भृतः परिपूर्ण, तथा योधानां युद्धं तनिमिचं सयः प्रगुणीभूतो यः स योधयुद्धसज्ज:, ततः पूर्वपदेन सह विशेषणसमासः, तस्येत्थंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतले - मणिबद्ध भूमितले अभीक्ष्णमभीक्ष्णं मणिको (कु) ट्टिमतप्रदेशे राजाङ्गणप्रदेशे वा 'अभिषट्टियमाणस्से' ति अभिघट्टधमानस्य वेगेन गच्छतो | ये उदारा - मनोकाः कर्णमनोनिर्वृतिकराः सर्वतः समन्तात् शब्दा अभिनिस्मरन्ति, 'भवे एयारूवे सिया' इति 'स्यात्' कथविद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः १, भगवानाह - नायमर्थः समर्थः पुनरपि गौतमः प्राह स यथा नामकः प्रातः स व्याय देवतायाः पुरतो या वादनायोपस्थाप्यते सा fee मनपाठिका तालाभावे च वाद्यते इति विवाले - तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरामन्दा मुछियाए' इति मूर्खेनं मूर्छा सा संजाताऽस्या इति मूर्च्छिता उत्तरमन्दया-उत्तरमन्दाभिधानया मूर्च्छनया - गान्धारखरान्तर्गतया सप्तम्या मूर्च्छिता उत्तरमन्दामूहिदा, किमुक्तं भवति १ - गान्धारस्वरस्य सप्त मू