SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ इति, इह पुरैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात्कोष्ठपुटानीत्युच्यन्ते तेषां 'कुट्टयमाना-1 नाम्' उदूखले कुट्टयमानानां 'रूविजमाणाण वा' इति ऋणखण्डीक्रियमाणानाम् , एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात् , न तु यूथिकादीनाम्, 'उक्किरिज्जमाणाण वा' इति क्षुरिकादिभिः कोष्टादिपुटाना | कोष्ठादिद्रयाणां वा उत्कीर्यमाणानां 'विक्सरिजमाणाण वा' इति 'विकीर्यमाणानाम् इतस्ततो विप्रकीर्यमाणानां परिभुजमाणाण वा' परिभोगायोपभुज्यमानानां, कचित्पाठः परिभाएजमाणाण वा' इति, तत्र 'परिभाज्यमानानां' पार्श्ववर्तिभ्यो मनाग २ दीयमानानां 'भंडाओ भंड साहरिजमागाण वा' इति 'भाण्डात् स्थानादेकस्माद् अन्यद् भाण्डं-भाजनान्तर संहियमाणानाम् 'उदाराः' फारा:, से चामनोज्ञा अपि स्युरत आह—'मनोज्ञाः' मनोऽनुकूलाः, तथ मनोजवं कुतः ? इत्याह-'मनो-II हरा।' मनो हरन्ति-आत्मवशं नयन्तीति मनोहरा:, यतस्ततो मनोहरवं कुतः ? इत्याह-वाणमनोनिवृतिकराः, एवंभूताः 'सर्वतःला सर्वासु दिक्षु 'समन्तता' सामस्त्येन गन्धाः 'अभिनिःस्रवन्ति' जिचतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-'भवे ए-1 यारूवे' इत्यादि प्राग्वत् ॥ तेषां मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञप्तः ?, भगवानाह-गौतम! 'से जहा नाम ए' इत्यादि, तद्यथा-'अजिनक' चर्ममयं वस्त्रं रूतं च प्रतीतं 'बर वनस्पतिविशेषः 'नवनीत' म्रक्षणं हंसगर्भतूली शिरीपकुसुमनिचयश्च प्रतीतः 'बालकुमुदपत्तरासी वेति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, कचित् बालकुसुमपत्रराशिरिति पाठः, 'भवे एयारूवे' इत्यादि प्राम्बत् ।। 'तेसि णं भंते!' इत्यादि, तेषां भदन्त ! तृणानां पूर्वापरदक्षिणोत्तरागतात; 'मन्दायं मन्दाय'मिति मन्द मन्दम् एजितानां कम्पितानां 'व्येजितानां विशेषतः कम्पितानाम् , एत
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy