SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ मतिरक्तं भवति अर्द्धमतिकृष्णं ततो गुजार्द्धग्रहणं, जपाकुसुम किंशुककुसुमपारिजातकुसुमजात्यहिकुलका :- प्रतीताः 'शिलाप्रवाल' प्रवालनामा रत्नविशेष: प्रवालाङ्करः तस्यैव रत्नविशेषस्य प्रत्रालाभिवस्याङ्कुरः, स हि प्रथमोद्गतत्वेनात्यन्तरको भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरक्त कम्बल चीनपिष्ट शिरकोत्पलरक्ताशोक रक्तकणवीर रक्तबन्धुजीवाः प्रतीक्षा : 'भवे एयारूत्रे' इत्यादि प्राग्वत् ॥ ' तत्थ पण 'मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये हरिद्रा मणयस्तृणानि च तेषामयमेतद्रूपो 'वर्णावास : ' वर्णकविशेष: प्रज्ञप्तः, तद्यथा - 'से जहा नाम ए' इत्यादि, स यथा नाम - चम्पकः सामान्यतः सुवर्णचम्पको वृक्ष: 'चम्पकच्छल्ली' सुवर्णचम्पकत्वक 'चम्पकर्मदः सुवर्णच्छेयः 'हरिद्रा' प्रतीक 'हरिद्राभेदः' हरिद्राच्छेदः 'हरिद्रागुलिका' हरिद्रासारनिर्वर्त्तिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिका गुलिका' | हरितालिका सार निर्वर्त्तिता गुटिका 'चिकुरः' रागद्रव्यविशेषः 'चिकुराङ्गरागः' चिकुरसंयोग निमित्तो वस्त्रादौ रागः, वरकनकस्य - जाससुवर्णस्य यः कषपट्टके निधर्षः स वरकनकनियर्ष:, वरपुरुषी-वासुदेवस्तस्य वसनं वरपुरुषत्रसनं तद्धि किल पीतमेव भवतीति तदुपादानम्, अ ( स ) लकी कुसुमं लोकतोऽवसेयं 'चम्पककुसुमं' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुम' पुष्पफलीकुसुमं कोरण्टकःपुष्पजातिविशेषस्तस्य दाम कोरण्टकदाम तडवडा आउली तस्याः कुसुमं तडवढा कुसुमं घोषातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं सुहरिण्यका - वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यका कुसुमं वीयको - वृक्षः प्रतीतस्तस्य कुसुमं बीयककुसुमं पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीता: 'भवे एयारूवे' इत्यादि प्राग्वत् ॥ ' तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते शुछा मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, तद्यथा - ' से जहा नाम ए' इत्यादि, स यथा नाम - 'अङ्कः' रत्न
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy