________________
शृणां मनांसि आप्नुवन्ति प्राप्नुवन्ति आत्मवशतां नयन्तीति मनआपाततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्याच पकारस्य मकारे मणामतरा इति भवति । तथा 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये वे नीला नणवस्तृणानि च तेषामयमेतद्रूपः 'वर्णावासः' वर्णक निवेश: प्रज्ञप्तः, तद्यथा - 'से जहा नाम ए' इत्यादि, स यथा नाम - 'भृङ्गः' कोदविशेष: पक्ष्मलः भृङ्गपत्र - तस्यैत्र] भृङ्गाभिधानस्य कीटविशेष क्षम' की 'धुकपिन्छे' पत्रं 'चाषः पक्षिविशेष: 'चापपिच्छं' चाषपक्ष: 'नीली' प्रतीता 'नीलीभेदः' नीलीच्छेदः 'नीलीगुलिया' नीलीगुटिका 'श्यामाकः' धान्यविशेषः 'उच्चंतगे वा' इति 'उच्च[न्तगः' दन्तरागः 'वनराजी' प्रतीता हलबरो-बलदेवस्तस्य वसनं हलधरवसनं तथ किल नीलं भवति, सदैव तथास्वभावतया हलधरस्य नीलवस्त्रपरिधानात् मयूरभीवापारापतत्रीवात सीकुसुमवाणकुसुमानि प्रतीवानि, अत ऊर्द्ध कचित् 'इंदनीलेइ वा महानीले वा मरगते वा' तत्र इन्द्रनीलमहानीलमरकता रत्नविशेवाः प्रतीताः, अञ्जनकेशिका - वनस्पतिविशेषस्तस्याः कुसुममञ्जनकेशिका कुसुमं 'नीलोत्पल' कुवलयं नीलाशोकनीलकणवीर नीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूत्रे' इत्यादि प्राग्वद् व्याख्येयम् । तथा 'तत्थ पण' मित्यादि, तत्र तेषां मणीनां मध्ये ये ते लोहिता मणयस्तृणानि च तेषामयमेतद्वषो वर्षावास: प्रशतः, तद्यथा' से जहा नाम ए' इत्यादि, स यथा नाम शशकरुधिरनुरन-करणस्तस्य रुधिरं वराहः - शूकरस्तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, 'वालेन्द्रगोपकः' सद्योजात इन्द्रगोपकः, स हि प्रवृद्धः सभीषत्पाण्डुरको भवति ततो वालग्रहणम् इन्द्रगोपकः - प्रथम प्रावृट्कालभावी कीटविशेष: 'बालदिवाकरः' प्रथममुद्रच्छन् सूर्य: 'सन्ध्यावरागः' वर्षासु सन्ध्यासमयभावी अभ्ररागः गुञ्जा- लोकप्रतीता तस्या अझै रागो गुखार्द्धरागः, गुजाया हि मई