________________
-
-
-
तस्यैव प्रायोऽतिकालिमसम्भवात् , इतिशब्द उपमाभूतवरतुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रेतिवाशदी द्रष्टव्यो, 'अञ्जन' सौवीरासनं रत्नविशेषो वा 'खान' दीपमल्लिकामल: 'कज्जलं' दीपशिखापतितं 'मषी' तदेव कजलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितं मपीपलिका-घोलित कजलगटिका, कचित 'मसी इति मसीगलिया इति वेति न दृश्यते, | गवलं-माहिषं शृङ्गं तदपि चोपरितनखाभागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , तथा तस्यैव माहिषशृङ्गस्य निबिडतरसार निर्वर्तिता गुडिका गवलगुडिका 'भ्रमर' प्रतीतः 'भ्रमरावली' भ्रमरपङ्किः 'भ्रमरपतनासारः' भ्रमरपक्षान्तर्गतो, विशिष्ट कालिमोपचित: प्रदेश: 'जम्वफलं' प्रतीतम् 'आारिष्ट' कोमलकाकः 'परपष्टः' कोकिलः गजो गजकलभश्च प्रतीत: 'कृष्णसर्पः' कृष्णवर्णसर्पजातिविशेष: 'कृष्गकेसरः' कृष्णवकुल: 'आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं तद्वत्कृष्णमतीव, प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवा: अशोककणवीरबन्धुजीबवृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति | ततः शेषवर्णव्युदासाथै कृष्णग्रहणम् , एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भवे एयारूवे' इति भवेन्मणीनां तृणानां च कृष्णो | वर्णः 'एतद्रूपः' जीमूतादिरूपः?, भगवानाह-गौतम! 'नायमर्थः समर्थः' नायमर्थ उपपन्नो यदुवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इटतरका एवं' कृष्णवर्णेनाभीप्सिततरका एव, तत्र किश्चिदकान्तमपि केपाश्चिदिष्ठतरं भवति ततोऽकान्ततान्यवच्छित्त्यर्थमाह-कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरका एव, अत एवं 'मनोज्ञतरकाः' मनसा ज्ञायन्ते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा-मनोऽनुकूलास्ततः प्रकर्षविवक्षायां तर पप्रत्ययः, तत्र मनोहतरमपि किश्चिन्नध्यमं भवति तत: सर्वोत्कर्षप्रतिपादनार्थमाह-मनापतरका एवं द्र
-
-
-