________________
TAA%*
शारिका कोकिलाऽपि चक्रवाककलहंससारसा:-प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः, तथा संपिण्डिताः-एकत्र पिण्डीभूता दृप्ता-मदोन्मत्ततया दर्पाध्माता भ्रमरमधुकरीणां पहकरा:-सजाताः, 'पहकरओरोहसंघाया' इति देशीनाममालावधनात् , यत्र ते संपिण्डितहप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमाना:-अन्यत आगत्यागत्य श्रयन्तो मत्ता: षट्पदाः कुसुभासवलोला:किञ्चकपानलम्पटा मधुरं गुमगुमायमाना: गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशमागेषु तस्मिन् तस्मिन् देशभागे येषां ते परिलीयमानमत्तषट्पदकुसुमासबलोलमधुरगुमगुमायमानगुजन्तदेशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवानि पुष्पाणि फलानि च पुष्पफलानि येषां ते तया, 'वाहिरपत्तच्छन्ना' इति बहिःपश्छन्ना-व्याप्ता यहिःपत्रछनाः, तथा पत्रैश्च पुष्पैश्च 'अवच्छन्नपरिच्छन्ना' अत्यन्तमाच्छादिताः, तथा 'नीरोगाः' रोगर्जिताः 'अकण्टकाः' कण्टकरहिताः, नैतेषु मध्ये बयूलकाईदेवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा मि-18 ग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासत्रैर्नानाविधैः-नानाप्रकारैर्गुच्छेः-वृन्ताकीप्रभृतिभिर्गुल्नैः-नवमालिकाविभिर्मण्डपैःद्राक्षामण्डपकैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिता:, वधा विचित्र:-नानाप्रकारैः शुभैः-मङ्गलभूतैः केतुमि:-ध्वजैर्बहुलाव्याता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्खरिणीदीहियासु य निवेसियरम्मजालघरगा' वाप्य:-चतुरस्राकाराखा एवं वृत्ताः पुष्करिण्यः यदिवा पुष्कराणि विद्यन्ते यामु ताः पुष्करिण्यः दीपिका-जुसारिण्यः वापीपुष्करिणीषु दीर्घिकासु च मुटु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीपिकातुनिवेशितरम्यजालगृहकानि, तथा पिण्डिता सती निहोरिमा-12 दरे विनिर्गच्छन्ती पिण्डिमनीहारिमा तां सुगन्धि-सदन्धिको शुभसरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा शुभसुरभिननोहरा तां|
*
*
***
*