________________
-
.
CAMERAKSex
मस्तीति कन्दवन्त:, एवं स्कन्धवन्सस्त्वम्वन्तः शालावन्तः प्रवालवन्तः पत्रवन्तः पुष्पवन्तः फालवन्तो बीजवन्त इत्यपि भावनीय, तत्र मुलानि-प्रसिद्धानि यानि कन्दस्याधः प्रसरन्ति कन्दास्तेपां मूलानामुपरिवर्तिनस्तेऽपि प्रतीताः, स्कन्धः-स्थुङ यतो मूलशाखाः प्रभवन्ति, वक्-छल्ली शाला-शाखा प्रवाल:-पल्लवाकुर: पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने कचिद्भनि वा मतुपप्रत्ययः, 'अशुपध्वसुजाइरुइलवहभावपरिणया' इति आनुपूा-मूलादिपरिपाट्या सुष्टु जाता आनुपूर्वीसुजाता रुचिला:-निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणता:, किमुक्तं भवति? एवं नाम सर्वासु दिक्षु विदिक्षु च शास्वाभिः प्रशाखाभिश्च प्रसृता यथा वर्तुला: संजाता इति, आनुपूर्वीसुजाताच ते रुचिराश्च ते च ते वृत्तभावपरिणताश्च आनुपूर्वासुजातहचिरवृत्तभावपरिणताः, तथा ते पादपाः प्रत्येकमेकस्कन्धा:, (समासान्तइन् ) प्राकृते वाऽस्य स्त्रीत्वमिति 'एगखंधी' इति पाठः, तथाऽमेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां तेऽनेकशाखाप्रशाखाविटपा;, तथा तिर्यग्याहुद्वयप्रसारणप्रमाणो च्यामः अनेकैर्नरव्यामैः-पुरुष
व्यामैः सुप्रसारितैरग्राह्यः-अप्रमेयो घनो-निविडो विपुलो-विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामसुप्रसारितापायघनविपुलवृत्तहै। स्कन्धाः, तथाऽच्छिद्राणि पत्राणि येषां ते अच्छिद्रपयाः, किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतो वा गहरिकादिरी
तिरुपजायते, न तेषु पत्रेषु छिद्राणि भवन्तीत्यच्छिद्र पन्त्राः, अथवा एवं नानान्योऽन्य शाखाप्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जा-||
तानि येन मनागप्यपान्तरालरूप छिद्रं नोपलक्ष्यत इतेि, तथा चाह-'अविरलपत्ता' इति, अत्र हतौ प्रथमा ततोऽयमर्थः-यतोऽविहरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा अपि कुस:? इत्याह–'अवातीनपत्रा' बातीनानि-बातोपहतानि वातेन पातितानीत्यर्थः
न वातीनानि अवातीनानि पत्राणि येषां ते तथा, विमुक्तं भवति ?-न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि' त्रुटित्वा भूमी