________________
%ARAरकर
वनषण्डोऽवभासते इति, तथा एते कृष्णनीलहरितवर्णा यथा (तः) स्वस्लिन रूपेऽत्यर्थमुत्कटा: स्निग्धा भण्यन्ते तीघ्राश्च ततस्तद्योगाइनखण्डोऽपि स्निग्धस्तीत्रश्चोक्तः, न चैतदुपचारमात्रं, किन्तु तथा प्रतिभासोऽपि तत उक्तं निग्धावभासस्तीवावभास इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु | यथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-किण्हे किण्हच्छाये' इत्यादि, कृष्णो बनखण्डः, कुत: १ इत्याह-कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मितिवचनाद्धेतौ प्रथमा, ततोऽयमर्थ:-यस्मात् कृष्णा छाया-आकारः सर्वाविसंवादितया तस्य तस्मात्कृष्णः, एतदुक्तं भवति--सर्वाविसंवादितया तत्र छष्ण आकार: उपलभ्यते,
न सावमालसंपादिवसभाका सविसंवादी भवति, ततस्तरववृत्त्या स कृष्णो न भ्रान्तावभासमात्रव्यवस्थापित इति, एवं नीलो नीलकछाय इत्याद्यपि भावनीयं, नवरं शीत: शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घणकडियउच्छाए' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः काटिरिख कटिरित्युच्यते, कटितटमिव कटितटं पना-अन्यान्यशाखामशास्त्रानुप्रवेशतो निविदा कटितटे-मध्यभागे छाया यस्य स धनकटितटच्छायः, मध्यभागे निबिडतरच्छाय इत्यर्थः, कचि. त्पाठः “घनकडियकडच्छाए' इति, तत्रायमर्थ:-कट: सजातोऽस्येति कटितः कटान्तरेणोपरि आवृत इत्यर्थः कटितश्चासौ कटश्च कदितकटः घना-निविडा कटितकटस्येवाधोभूमौ छाया यस्य स घनकटितकटच्छायः अत एव रम्यो-रमणीयः, तथा महान्-जलमारावनतः प्रायूटकालभावी मेघनिकुरम्बो-मेघसम्हस्तं भूतो-गुणैः प्राप्तो महामेधनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थः । 'ते थे। पायवा' इत्यादि, 'ते' वनपण्डान्तर्गता: पादपा 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि च सन्येषामिति मूलवन्तः, कन्द एषा-1