________________
पररपटसंपर्कवान: पहाता यज्ञमाया' इति शब्दायमानानि शब्दायमानानि 'उदारण' स्फारेण शब्देनेति योगः, सच स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह—'मनोज्ञेन' मनोऽनुकूलेन, तश्च मनोऽनुकूलत्वं लेशतोऽपि सादत आह–'मनोहरण' मनांसि श्रोतृणां हरति-आमवशं नयतीति मनोहरः, "लिहादे'राकृतिगणवादच्प्रत्ययः, सेन, तदपि मनोहरलं कुतः । इत्याहकर्णमनोनिवृतिकरेण–'निमित्तकारणहेतुपु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनाद् हेतौ तृतीया, ततोऽयमर्थः-यतः श्रोसृकर्णयोर्मनसश्च निवृतिकर:-सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान प्रत्यासनान् प्रदेशान् 'सर्वतः' दिनु 'सम-1 न्ततः विविक्षु आपूरयन्ति शत्रन्तस्य शाबिदं रूपं, तत एव श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति । 'तीसे ण'मित्यादि, तस्याः पनवरवेदिकायास्तत्र तत्र देशे २ 'तहिं तर्हि' इति तस्यैव देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ?-यत्र देशे एकस्तत्रान्येऽपि विवन्त इति, बहवे 'हयसंघाडा' ह्ययुग्मानि सङ्घाटशब्दो वुग्मवाची यथा साधुसङ्गाट इत्यत्र,
एवं गजनरकिंनरकिंपुरुषमहोरगगन्धर्ववृषभसङ्गाटा अपि वाच्या:, एते च कथम्भूताः? इत्याह-'सब्बरवणामया' सर्वासना रत्नC.मया: 'अच्छा' आकाशस्फटिकवति स्वच्छा: 'जाव पडिरूवा' इति यावत्करणात् 'सण्हा उण्हा पठ्ठा मठा' इत्यादिविशेषणक-1
दम्बकपरिग्रहस्तञ्च प्राग्वत् । एते च सर्वेऽपि यसवाटादचः सवाटाः पुष्पावकीर्णका उक्ताः, सम्प्रत्येतेषामेव यादीनां पतयादिप्रतिपादनार्थमाह-एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां यादीनामष्टानां सबाटा उक्तास्तथा पतयोऽपि वक्तव्या वीथयोऽपि मिथुनकानि च, तानि चैवम्-तीसे णं पउमवरवेश्याए तत्थ तत्थ देसे देसे तहि तहिं बहुयाओ हयपतीओ गयपंतीओ। इत्यादि, नवरमेकस्यां दिशिया श्रेणिः सा पङ्किरभिधीयते, उभवोरपि पाश्वयोरेकैकश्रेणिभावेन यच्छेणिद्वयं सा वीधी, एते च वीथी
AAG