________________
वासः वर्णः श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासो - निवासो मन्थपद्धतिरूपो वर्णावासो वर्णक निवेश इत्यर्थः ' प्रशठः प्ररूपितः, तद्यथेत्यादिना तदेव दर्शयति – 'बइरामया नेमा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादू निष्क्रामन्तः प्रदेशा सर्वे 'बज्रमयाः' वर्णरत्रमयाः, वज्रशब्दस्य दीर्घलं प्राकृतत्वात् एवमन्यत्रापि द्रष्टव्यं रिष्ठमयानि प्रतिष्ठानानि - मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरामयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि लोहिताक्षरत्नात्मिकाः सूचयः फलकद्वयसम्बन्धविघटनाभाव| हेतुपादुकास्थानीयास्ते सर्वे 'वइरामया संधी' वज्रमयाः सन्धयः - सन्धिमेला फलकानां, किमुक्तं भवति ? - बजारनापूरिताः फलकानां सन्धयः 'नाणामणिमया कलेवरा' इति नानामणिमयानि कलेवराणि - मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्घाटा - मनुष्यशरीरयुग्मानि नानामणिमयानि रूपाणि-रूपकाणि नानामणिमया रूपसङ्घाटाः-रूपयुग्मानि 'अङ्कामया पक्खा पक्खबाहातो य' इति अङ्को - रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाकमयाः, आह च मूलटीकाकारः- “अङ्कुमयाः पशास्तदेकदेशभूताः, एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्या य' इति ज्योतीरसं नाम रनं तन्मया वंशाः - महान्तः पृष्ठवंशाः 'वंशकवेल्हुया य' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कबेलुकाति-प्रतीतानि 'ययामईओ पट्टियाओ' इति रजतमय्यः पट्टिका वंशानामुपरि कम्बास्थानीया: 'जायरूवमईओ ओहाडणीओ' जातरूपं - सुबर्णवि | शेषस्वन्मय्य: 'ओहाउणीओ' अवघादिन्यः आच्छादन हेतु कम्बोपरिस्थाप्यमानमद्दाप्रमाणकिलिभ्वस्थानीयाः, 'वइरामईओ उवरिं पुंछणीओ' इति 'वज्रमय्यो' वज्ररत्नामिका अवघाटनीनामुपरि पुग्छन्य:- निविडतरच्छादन हेतु श्लक्ष्णतरमृणविशेषस्थानीयाः, उक्तं च मूलटीकाकारेण - "ओहाडणी हीररगहणं महत् क्षुल्लकं तु पुञ्छनी इति, 'सव्वसेए रययामए साणं छाणे' इधि, सर्वश्वेवं रजत मयं