SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ गोपुच्छसंठाणसंठिता सच्ववहरामई अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिम्मला णिष्यंका शिकं कडच्छाया सप्पभा समिरीया सज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरुवा || साणं जगती एक्केणं जालकडणं सव्वतो समता संपरिक्खित्ता ॥ से णं जालकडए णं अद्धजोयणं उ उच्चतेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए अच्छे सण्हे लहे (जाव) [घढे मट्ठे णीरए णिम्मले पिके णिक्कंकडच्छाए सप्पभे [सस्सिरीए] समरीए सउज्जोए पासादीए दरिसणिजे अभिरू] परूिये ॥ ( सू० १२४ ) 'तत्थ ण' मिलादि, 'तत्र' तेषु द्वीपसमुद्रेषु मध्ये 'अर्थ' यत्र वयं वसामो जम्बूद्वीपो नाम द्वीपः कथम्भूतः १ इत्याह- सर्वद्वीपसमु द्राणां 'सर्वाभ्यन्तरकः' सर्वात्मना – सामस्त्येनाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, प्राकृतलक्षणात्स्वार्थे कप्रत्ययः केषां सर्वात्मनाऽभ्यन्तरक: ?, उच्यते, सर्वद्वीपसमुद्राणां तथाहि--सर्वेऽपि शेषा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगुणविस्तारास्ततो भवति सर्वेद्वीपसमुद्राणां सर्वाभ्यन्तरकः, अनेन जम्बूद्वीपस्यावस्थानमुक्तं, 'सव्वखुड्डाग' इति सर्वेभ्योऽपि शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः सर्वक्षुकः, तथाहि सर्वे लवणादयः समुद्राः सर्वे च धातकीखण्डादयो द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणायामविकम्भपरिधयस्ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति एतेन सामान्यतः परिमाणमुक्तं, विशेषतस्त्वायामादिगतं परिमाणमथे वक्ष्यति, तथा वृत्तोऽयं जम्बूद्वीपो यतस्तैलापूपसंस्थानसंस्थितः, तैलेन पक्कोऽपूपस्तैलापूपः, तैलेन हि पक्रोऽपूपः प्रायः परिपूर्ण वृत्तो भवति न घृतपक इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थित सैलापूपसंस्थानसंस्थितः, तथा वृत्तोऽयं जम्बूद्वीपो यतो 'रथचक्रवालसंस्थानसंस्थितः'
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy