________________
-
-
-
-
-
रथस्य-रथाङ्गस्य चक्रस्थावयवे समुदायोपचाराचकवालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसं स्थितः, एवं वृत्तः पुष्करकर्णिकासंस्थानसंस्थित: पुष्करकर्णिका-पनबीजकोशः वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः पदद्वयं भावनीयम्, एतेन जम्यूद्वीपस्य संस्थानमुक्तम् ।। सम्प्रत्यायामादिपरिमाणमाह-'एक ण'मित्यादि, एकं योजनशतसहस्रमायामविष्कम्भेन, आयामश्च विष्कम्भश्च आयामविष्कम्भ, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिक त्रयः क्रोशा अष्टाविंशम्-अष्टाविंशत्यधिक धनुःशतं त्रयोदशाङ्गलानि अनिलं च किचिद्विशेषाधिकमित्येतावान् परिक्षेपेण प्राप्तः, इदं च परिक्षेपपरिमाणं 'विक्खंभवम्गदहगुणकरणी वहस्स परिरओ होइ।' इति करणवशारखयमानेवव्यं क्षेत्रसमासटीका वा परिभावनीया, तार गणितमालायाः सखि हातमात् ।। सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-'से ण'मि| त्यादि, 'सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपो णमिति वाक्यालकारे एकया जगत्या सुनगरप्राफारकल्पया 'स
त:' सर्वामु दिक्षु 'समन्ततः' सामस्त्येन 'संपरिक्षिप्त' सम्यग्वेष्टितः ॥ 'सा णं जगई इत्यादि, सा च जगती ऊर्द्धम्-उच्चस्त्वेनाष्टौ योजनानि मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा, मध्ये संक्षिप्ता त्रिभागोनत्वात् , उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात् , एतदेवोपमया प्रकटयति—'गोपुच्छसंठाणसंठिया' गोपुच्छस्यैव संस्थान गोपुच्छसंस्थानं तेन संस्थिता गोपच्छसंस्थानसंस्थिता ऊकृतगोपुच्छाकारा इति भा मना-सामस्त्येन बनमयी-वत्ररत्नासिका 'अच्छा' आकाशस्फटिकवदतिखच्छा 'सण्हा लण्हा' अक्ष्णा-लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत् 'लपहा' मसृणा घुण्टितपदवत् 'चहा' पृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'महा' मृष्टा इव मृष्टा सुकु