________________
भावः, एतेन द्वीपसमुद्राणामायामादिपरिमाणं पृष्टं तथा 'किंसंठिया णं भंते! दीयसमुद्द।' इति किं संस्थित संस्थानं येषां ते किंसंस्थिता मिति पूर्वनद्न् ! दीएसमा प्रशप्ताः १, अनेन संस्थानं पप्रच्छ, 'किमागारभाव पडीयारा णं ते! दीवसमुद्दा | पण्णत्ता' इति आकारभावः - स्वरूपविशेषः कस्याकार भावस्य प्रत्यवतारो येषां ते किमाकार भाव प्रत्यवधाराः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, णमिति पूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ता: ?, किं स्वरूपं द्वीपसमुद्राणामिति भावः अनेन स्वरूपविशेषविषयः प्रश्नः कृतः, भगवानाह - 'गोयमे' त्यादि, गौतम! जम्बूद्वीपादयो द्वीपा 'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः अनेन द्वीपानां समुद्राणां चादिरुक्तः, एतचापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवत्ते शिष्याचापृष्टमपि कथनीयमिति ख्यापनार्थ 'द, 'सैंठाणतो' इत्यादि, 'संस्थानतः' संस्थानमाश्रित्य 'एगविहिविहाणा" इति एकविधि – एकप्रकारं विधानं येषां ते एक विश्विविधानाः, एक वरूपा इति भावः सर्वेषां वृत्तसंस्थानसंस्थितत्वाद्, 'विस्तारतः' विस्तारमधिकृत्य पुनरनेक विधिविधानाः अनेकविधानि - अनेकप्रकाराणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानाखरूपा इत्यर्थः, तदेव नानास्वरूपत्वमुपदर्शयति-- 'दुगुणाद्गुणे पप्पाएमाणा २ प | वित्थरमाणा' इवि द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्तः' प्रकर्षेण विस्तारं गच्छन्तः, तथाहि - जम्बूद्वीप एकं लक्षं लवणसमुद्रो द्वे लक्षे धातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया' इति भवमासमाना वीचय:- कल्लोला बेषां ते अवभासमानवीचयः, इदं विशेषणं समुद्राणां प्रतीतमेव, द्वीपानामपि च वेदितव्यं तेष्वपि इदनदीतडागादिषु कल्लोलसम्भवात् तथा बहुभिरुत्पलपद्मकुमुदन लिन सुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्र: 'पप्फुल्ल' सि प्रफुलै: - विक सितैः 'केसरे' ति केसरोपलक्षितैरुपचिताः - उपचितशोभाका बहूत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीक महापौण्डरीक पत्र सह