________________
.
.
पताकाछत्रासिच्छत्रफलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलम्-अम्बरतलमनुलिखन-अभिलवयन शिवरं येषां तरनि गगनतलानुलिखच्छिंखराणि, तथा जालानि-जालकानि तानि च भवनभित्रिषु लोकप्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्त रत्नानि यत्र तानि जालान्तररत्नानि, तथा पजराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पाराद्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तृपिका-शिखरं येषां तानि मणिकनकस्तूपिकानि, वत: पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतिलेन |स्थितानि तिलकाश्च-मित्त्यादिषु पुण्डाणि रनमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्रार्द्धचन्द्रचित्राणि, | तथा नानामणिमयीभिर्दामभिरलकृतानि नानामणिमयदामालमृतानि, तयाऽन्तर्बहिश्च श्लक्ष्णानि-ममृणानि, तथा तपनीयं-सुवर्णविशे-IK पस्तन्मव्या रुचिराया वालुकायाः-सिकतायाः प्रस्तटः-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रसटानि, तथा सुखस्पर्शानि शुमस्प-|
ानि वा शेषं प्राग्वद् यावद् 'बहस्सइचंदा' इत्यादि, वृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुबुधाङ्गारकाः तप्ततपनीयकनकवर्णाःईषत्कनकवर्णाः, तथा ये महा ज्योतिष्के-ज्योतिश्चक्रे चारं चरन्ति केतवः ये च बाह्यद्वीपसमुद्रेष्वगतिरतिका: ये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानाविघसंस्थानसंस्थिताः चशब्दात्तप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णाः, एते च सर्वेऽपि स्थितलेश्या | अवस्थिततेजोलेश्याकाः, तथा ये चारिण:-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येक नाभालेन-स्वस्खनामाङ्कपातेन प्रकटितं चिहं मुकुटो येषां ते प्रत्येक स्वनामाप्रकटितमुकुटचिहाः, किमुक्तं भवति?-चन्द्रस्य स्वमुकुटे चण्द्रमण्डलं लाञ्छनं स्वनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ब्रह्मण्डलं नक्षत्रस नक्षत्रमण्डलं तारकस्य तारकाकारमिति, शेष प्राग्वत् ॥ पर्षनिरूपणार्थमाह
-
KAMACHAR
"