________________
त्रियाः पुंस्यभिलाषः स्त्रीवेदः, पुंसः खियामभिलाषः पुवेदः, उभयोरप्यभिलाषो नपुंसकवेदः, भगवानाह-गौतम! न स्त्रीवेदका न पुरुषवेदकाः, नपुंसकवेदका: संमूछिमत्वात् , 'नारकसंमूछिमा नपुंसका' इति भगवद्वचनम् ॥ पर्यामिद्वारमाह-"तेसिणं भंते' | इत्यादि, सुगम, पर्याप्तिप्रतिपक्षा अपर्याप्तिस्तनिरूपणार्थमाह-'तेसि णं भंते!' इत्यादि पाठसिद्धं, नवरं चतस्रोऽप्यपर्याप्तयः करणापेक्षया द्रष्टव्या:, लमध्यपेक्षया त्वेकैव प्राणापानापर्याप्तिः, यस्मादेवमागमः-इह लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमामावेच म्रियन्ते नार्वाक , यत आगामिभवायुर्वद्धा म्रियन्ते सर्व एवं देहिनः, तचाहारशरीरेन्द्रियपर्याप्तानामेव बन्धमायातीति ॥ सम्प्रति दृष्टिद्वारमाह-'ते णं भंते!' इत्यादि सुगम, नवरं सम्यग -अविपरीता दृष्टि:-जिनप्रणीतवस्तुतस्वप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपर्यस्ता दृष्टियपां भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् मिथ्यादृष्टयः, एकान्तसम्यपमिथ्यारूपप्रतिपत्तिविकलाः सम्यग्मिध्यादृष्टयः, निर्वचनसूत्रं-'गोयमे त्यादि, सुगम, नवरं सम्यग्दृष्टित्वप्रतिषेध: सासादनसम्यक्त्वस्यापि तेषामसम्भवान् , सासादनसम्यक्त्वषतां तन्मध्ये उत्पादाभावात् , ते यतिसंश्लिष्टपरिणामाः, सास्वादनसम्यक्त्वपरिणामस्तु मनाक् शुभ इति तन्मध्ये सासादनसम्यक्त्ववतामुत्पादाभावः, अत एव सदा संक्लिष्टपरिणामस्वात्तेषां सम्यग्मिध्याहष्ठित्वपरिणामोऽपि न भवति, नापि सम्यग्मिध्यादृष्टिः सन् तन्मध्ये उत्पद्यते, "न सम्ममिच्छो कुणइ कालं" इति वचनात् ॥ गतं दृष्टिद्वारमधुना दर्शनद्वारमाह-दर्शनं नाम सामान्यविशेषासके वस्तुनि सामान्यावबोधः, तच्चतुर्धा, तद्यथा-चक्षुदर्शनमचक्षुदर्शनमवधिदर्शनं केवलदर्शनं च, तत्र सामान्यविशेषालके वस्तुनि चक्षुषा दर्शन--रूपसामान्यपरिच्छेदश्चक्षुर्दर्शनम् , अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनम्, अवधिरेव दर्शनरुपिसामाग्यमहणमवधिदर्शनं, केवलमेव दर्शन--सकलजगदाविवस्तसामान्यपरिच्छित्तिरूपं केवलदर्शनं, तत्र फिमेषां दर्शन मिति