________________
-
-
न जिज्ञासुः पृषछति-ते ण भंते' इत्यादि पाठसिद्धं, नवरमचक्षुर्पर्शनिवं स्पर्शनेन्द्रियापेक्षया, शेषदर्शनप्रतिषेधः सुशानः ।। गतं दर्शनद्वार, शानद्वारमाह-'तेणे भंते जीवा' इत्यादि, अशानल मिध्यारष्टित्वात् , तदपि चाज्ञानत्वं मत्वज्ञान ताज्ञानापेक्षया, तथा पाह -नियमा दुअण्णाणी'त्यादि पाठसिद्धं, नवरं तदपि मत्यज्ञानं श्रुताझानं च शेषजीवबादरादिराश्यपेक्षयाऽत्यन्तमल्पीय: प्रतिपत्तव्यं, यत उक्तम्-"सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्म निगोदापर्याप्नानां स च भवति विज्ञेयः ॥ १॥ तस्मात्प्रभृति शानविवृद्धिर्दष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाग्मनोहग्भिः ॥ २॥" योगद्वारमाह-'ते णं भैते' इत्यादि पाठसिद्धम् ।। गतं योगद्वारमधुनोपयोगद्वारं, तत्रोपयोगो द्विविध:-साकारोऽनाकारश्च, तथाकार:-प्रतिवस्तु प्रतिनियतो ग्रहणपरिणाम: "आगारो उ विसेसो" इति वचनात, सह आकारो यस्य येन वा स साकारो-शामपञ्चकमज्ञानत्रिक, यथोक्ताकारविकलोऽनाकारः, स |चक्षुर्दर्शनादिको दर्शनचतुष्टयात्मकः, उक्त च--"ज्ञानाज्ञाने पश्च त्रिविकल्प सोऽष्टधा तु साकारः । चक्षुरचक्षुरवधिकेवलहविषयस्त्वनाकारः॥१॥" तत्र क एषामुपयोगः? इति जिज्ञासः पृच्छति–'ते ण भंते। इत्यादि निगदसिद्धं, नवरं साकारोपयोगोपयुक्ता | मत्यज्ञानश्रुताज्ञानोपयोगापेक्षया, अनाकारोपयोगोपयुक्ता अचक्षुर्दर्शनोपयोगापेक्षयेति ।। साम्प्रतमाहारद्वारमाह-ते णं भंते इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालद्वारे भदन्त ! जीवाः किमाहारमाहारयन्ति ?, भगवानाह-गौतम! 'द्रव्यतो' द्रव्यस्वरूपपर्यालोचनायामनन्तप्रादेशिकानि द्रव्याणि, अन्यथा ग्रहणासम्मवात, न हि सायातप्रदेशासका असहपातप्रदेशासका वा स्कन्धा| जीवस्य ग्रहणप्रायोग्या भवन्ति, क्षेत्रतोऽसायातप्रदेशावगाढानि, कालतोऽन्यतरस्थितिकानि-जघन्यस्थितिकानि मध्यमस्थितिकानि उस्कृष्टस्थितिकानि चेति भावार्थ:, स्थितिरिति चाहारयोग्यस्कन्धपरिणामत्वेऽवस्थान प्रत्येतव्यम्, आह च मूलटीकाकार:-काल