________________
- स्वेच्छया गमो येषां ते कामगमा:- स्वेच्छाचारिणः, कचित् 'कामकामाः' इति पाठः, कामेन - स्वेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः तथा कामं - स्वेच्छया रूपं येषां ते कामरूपास्ते च ते देहाच कामरूपदेहास्तान् धरन्तीत्येवंशीलाः कामरूपदेहधारिणः स्वेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः तथा नानाविधैर्वणै रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि - प्रधानानि चित्राणि - नानाविधानि अद्भुतानि वा (वस्त्राणि चेल्लकानि - देशीवचनाद् देदीप्यमानानि नियंसणं- परिधानं येषां ते | नानाविधवर्णरागवरवस्त्र चे लटक निवसनाः तथा विविधैर्देशनेपथ्यैर्गृहीतो वेषो यैस्ते विविधदेशनेपथ्यगृहीतवेषाः, 'पमुइयकंदष्पकलहकेलिकोलाहलप्पिया' कन्दर्पः - कामोद्दीपनं वचनं चेष्टा च कलहो-राटिः केलि:- क्रीडा कोलाहलो- त्रोलः कन्दर्पकल इकेलिको लाहला: प्रिया येषां ते कन्दर्प कलह के लि कोलाहल प्रियाः, ततः प्रमुदितशब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हासबोलो बहुली -- अतिप्रभूतौ येषां ते हासबोलबहुलाः, तथाऽसिमुहरशक्ति कुन्ता हस्ते येषां ते असिमुद्रशक्तिकुन्तहस्ताः, 'प्रहरणात् सप्तमी वे 'ति सप्तम्यन्तस्य पाक्षिक: परनिपातः, 'अणेगमणिरयणविविहनिजुत्तचित्तविधगया' इति, मणय: - चन्द्रकान्ताथा रत्नानि - कर्केतनादीनि अनेकैर्मणिरत्रैर्विविधं - नानाप्रकारं नियुक्तानि विचित्राणि - नानाप्रकाराणि चिह्नानि गतानि स्थितानि येषां ते तथा, शेषं प्राग्वत् ॥ 'कहि णं भंते! पिसायाणं देवाणं भोमेज्जा नगरा पण्णत्ता ?' क भदन्त ! पिशाचानां देवानां भौमेयानि नगराणि | प्रज्ञप्तानि ? इत्यादि, 'जहा ठाणपदे जाव विहरति यथा प्रज्ञापनायां स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरन्तीति पदं तचैवं"कहि णं भंते! पिसाया देवा परिवसंति ? गोयमा ! इसीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्साहस्स उवरिं एवं जोयणसयं ओगाहेता हेट्ठा चेगं जोयणस्यं वज्जेता मज्झे अट्ठसु जोयणसएसु, एत्थ णं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जन