________________
घाणिदिए णं भंते! किंसंठाणसंठिए पनते १, गोयमा ! अइमुत्तसंठाणसंठिए पनसे, जिम्भिदिए णं भंते! किंसंठाणसंठिए पत्र १, गोयमा ! खुरप्पसंठाणसंठि पते, फारिदिए पंठ पण्णत्ते ?, गोयमा ! नाणासंठाणसंठिए पन्नत्ते ॥” इति इह | स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तस्वार्थमूलटीकायामनभ्युपगमात् उपकरणं नाम खन्नस्थानीयाया बाह्यनिर्वृत्तेर्या खन धारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथविदर्थान्तरं, शक्तिशक्तिमतोः कथचिद्भेदात् कथश्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपघातसम्भवात्, तथाहि -सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरायां निर्वृत्तौ महाकठोरतरघनगर्जितादिना शस्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति भावेन्द्रियमपि द्विधा - लब्धिरुपयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये लब्भ्यनुसारेणासनः परिछेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूपं चेत्यमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं पृष्टमदगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः तथाहि - जकुलादयः पचेन्द्रिया इव भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते तथाऽपि न ते पश्वेन्द्रिया इति व्यवहियन्ते, ब्राह्मेन्द्रियपध्यकासम्भवात् उक्तं च-पंचेंदिओ व चलो नरो व्व सब्वविस ओवलंभाओ । तहवि न भण्णइ पंचिदिउ ति बसिदियाभावा ॥ १ ॥" ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह - 'गोयमे' त्यादि सुगमम् ॥ गतमिन्द्रियद्वारमधुना समुद्घातद्वारं तत्र समुदूधाताः सप्त तद्यथा-वेदनासमुद्घातः १ कषायसमुद्वातः २ मारणसमुद्घातः ३. वैक्रियसमुद्घातः ४ तैजससमुद्घातः ५ आहारकसमुद्घातः ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनाससुद्घातः,
१ पचेन्द्रिय एव बकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भव्यते पञ्चेन्द्रिय इति बाधेन्द्रियाभावात् ॥ १ ॥