________________
सर्वत्र सूचिता अन्यथा कपाटानामसम्भवात्, तोरणानि प्रतीतानि तानि च प्रतोलीद्वारेषु, प्रतिद्वाराणि - मूलद्वारापान्तरालवर्त्तीनि लघुद्वाराणि । तथा 'जंत सयग्धिमुसल मुसंढि परिवारिया' इति यत्राणि - नानाप्रकाराणि शतनयो - महाराष्ट्रयो महाशिला वा याः पातिताः सत्यः पुरुषाणां शतानि नन्ति मुशलानि - प्रतीतानि मुषण्डय: - शस्त्रविशेषास्तैः परिवारितानि - समन्ततो वेष्टितानि अत एवायोध्या निपरैर्योद्धुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सवा - सर्वकालं जयो येषु तानि सदाजयानि सर्वकालं जयवन्तीति भाव:, तथा सदा सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतः समन्ततो निरन्तरं परिवारिततया परेषामसहमानानां मनागपि प्रवेशासम्भवात् ' अडयालकोहरड्या' इति अष्टाचत्वारिंशद्भेदभिन्नविच्छिचिकलिताः कोटका - अपवरका रचिताः स्वयमेव रचनां प्राप्ता येषु तान्यष्टाचत्वारिंशत्कोष्ठकर चितानि सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथाऽष्टाचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये लभिदधति - अडयालशब्दो देशीवचनात् प्रशंसावाची, ततोऽयमर्थः - 'प्रशस्त कोष्ठकरचितानि प्रशस्तकृतवनमालानी'ति तथा 'क्षेमाणि' परकृतोपद्रवरहितानि, 'शिवानि' सदा मङ्गलोपेतानि, तथा किङ्कराः किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वा उपरक्षितानि - सर्वतः समन्ततो रक्षितानि किङ्करामरदण्डो पर क्षितानि, 'लाउलोश्यमहिया' इति लाइयं नाम यद्भूमेर्गोमयादिना उपलेपनम् 'उल्लोइयं' कुड्यानां मालस्य सेटिकादिभिः संमृष्टीकरणं लाइयोलोइयाभ्यां महितानि - पूजितानि छाइयोलोइयमहितानि तथा गोशीर्षेण-गोशीर्षनामकेन चन्दनेन सरसरतचन्दनेन च दर्दरेण - बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला - हस्तका येषु तानि गोशीर्षसरसर चन्दन दर्दरदत्तपश्वाङ्गुलितलानि तथा उपचिता- निवेशिताः चन्दनकलशा - मङ्गल्यकलशा येषु तानि उपचितचन्दनकलशानि, 'बंदणघडसुकयतोरणपडिदुवार दे सभागा'