________________
'कहि णं भंते!' इत्यादि, क भदन्त ! ह्यकर्णमनुष्याणां हयकद्वीपो नाम द्वीपः प्रज्ञप्तः १, भगवानाह - गौतम ! एकोरुकद्वीपस्य पूर्वस्माच्चरमान्ताद् उत्तरपूर्वस्यां दिशि लवणसमुद्रं चत्वारि योजनशतान्यवगायात्रान्तरे हिमवट्राया उपरि जम्बूद्वीपवेदिकान्तादपि चतुर्योजनशतान्तरे दाक्षिणात्यानां हयकर्णमनुष्याणां हयकर्णद्वोपा नाम द्वीपः प्रज्ञप्तः, स च चत्वारि योजनशतान्यायामविष्कम्भेन द्वादश पञ्चषष्ठानि योजनशतानि किश्विद्विशेषाधिकानि परिक्षेपेण, शेषं यथैकोरुकमनुष्याणां । एवमाभाषिक द्वीपस्य पूर्वेश्माचरमान्तादक्षिणपूर्वस्यां दिशि चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राना उपरि जम्बूद्वीपवेदिकान्ताच्चतुर्योजनशतान्तरे गजकर्ण मनुष्याणां गजकर्णो द्वीपो नाम द्वीपः प्रशप्तः आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत् । नाङ्गोलिकद्वीपस्य पश्चिमाचरमाता दक्षिणपश्चिमेन चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे हिमवदंष्ट्राया उपरि जम्बूद्वीपवेदिकान्ताश्चतुर्योजनशतान्तरे गोकर्ण मनुष्याणां गोकर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत् । वैशालिकद्वीपस्य पश्चिमाश्चरमान्ताद् उत्तरपश्चिमायां दिशि लवणसमुद्रमवगाह्य चत्वारि योजनशतानि अत्रान्तरे झुलहिंमवाया उपरि जम्बूद्वीपवेदिकान्ताचतुर्योजनशतान्तरे दाक्षिणात्यानां शष्कुली कर्ण मनुष्याणां शष्कुली कर्णद्वीपो नाम द्वीपः प्रज्ञप्तः, आयामविष्कम्भपरिधिपरिमाणं ह्यकर्णद्वीपवत्, पद्म वरचेदिकावन षण्डमनुष्यादिस्वरूपं च समस्तमेकोरुकद्वीपवत् । एवमेतेनाभिलापेनामीषां हयकर्णादीनां चतुर्थी द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु पञ्च योजनशतानि लवगसमुद्रमवगाह्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिकपञ्चदशयोजनशतपरिक्षेपाः पद्मववेदिकावन षण्डमण्डितबाह्यप्रदेशा जम्बूद्वीपवेदिकान्तात्पयोजनशतप्रमाणान्तरा आदर्शमुखमेण्डमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-हृयकर्णस्य परत आदर्शमुख गजकर्णस्य परतो मेण्ढमुखो गोकर्णस्य परतोऽयोमुखः शष्कुलीकर्णस्य परतो गोमुखः ।