________________
.
ON
व
वक्ष्यमाणलक्षणानि, तेषामाद्यानि पश्च संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तल्लक्षणायोगात् , तत इदं मसूरचन्द्रकाकारं संस्थान हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थित स्वरूपस्य तल्लक्षणस्य चोगात् , जीवानां संस्थानान्तराभावाच, आइ च मूलटीकाकार:-"संस्थानं मसूरचन्द्रकसंस्थितमपि हुण्ड, सर्वत्रासंस्थितखेन तल्लक्षणयोगात्, जीवानां संस्थानान्तराभावाचे"ति । गतं संस्थानद्वारमधुना कषायद्वारमाह-तेसिणं भंते !' इत्यादि, तेषां भदन्त ! सुक्ष्मपृथ्वीकायिकानां कति कषायाः प्रज्ञताः, नत्र कषाया नान कष्यन्ते-हिंस्यन्ते । परसरमस्मिन् प्राणिन इति कष:-संसारस्तमयन्ते-गच्छन्त्येभिर्जन्तव इति कषाया:-क्रोधादयः परिणामविशेपाः, तथा चाह-गोयमें स्यादि सुगम, नवरं क्रोधः-अप्रीतिपरिणामः मानो-गर्वपरिणानः माया-निकृतिरूपा लोमो-गार्श्वलक्षण:, एते च क्रोधादयोऽमीषी मन्दपरिणामतयाऽनुपदर्शितबाशशरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः ।। गतं करायद्वारं, सच्चाद्वारमाह-'तेसिण मित्यादि सुगम, नवरं सज्ञान सञ्झा, सा च द्विधा-ज्ञानरूपाऽनुभवरूपा च, तत्र ज्ञानरूपा मतिश्रुतावधिमनःपर्यायकेवलभेदात्पश्चप्रकारा, तत्र केवलसज्ञा क्षायिकी शेषास्तु क्षायोपशमिस्थः, अनुभवसझा-वकतासातवेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनमनुभवसङ्घया, ज्ञानसज्ञायास्तहारेण परिगृहीतवान् , तत्राहारसज्ञा नाम आहाराभिलाषः भुढेबनीयप्रभवः खल्वात्मपरिणामविशेषः, एषा चासातवेदनीयोदयादुपजायते, 'भयसम्झा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, 'परिग्रहसज्ज्ञा' लोभविपाकोदयसमुत्थमू परिणामरूपा, 'मैथुनसम्झा' वेदोदयजनिता मैधुनाभिलाषः, एताश्चतस्रोऽपि मोहनीयोदयप्रभवाः, एता अपि सूक्ष्मपृथ्वीनायिकानामव्यक्तरूपाः प्रतिपत्तव्याः ॥ गतं सब्ज्ञाद्वारमधुना लेश्याद्वारमाह-'तेसिण'मित्यादि सुगर्म, नवरं लिश्यति-शिष्यते आमा कर्मणा सहानयेति लेश्या-कृष्णादिद्रव्यसाचिच्यादासनः शुभाशुभपरिणामः, उक्त च-"कृष्णादि-|
KISAACARKARSEX