________________
RSARK
प्रतिनियतो जीवो विवक्ष्यते किन्तु जीवसामान्यं, ततः प्राणधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिदोषः, तथाहि-जीवे णं भंत इत्यादि, जीवो णमिति पूर्वपद् भदन्त! जीव इति-जीवन्निति प्राणान् धारयन्नित्यर्थः कालत: कियचिरं भवति?, भगवानाह-गौतम! |सर्वाद्धां, जीवसामान्यस्यानाद्यनन्तत्वात् , न चैतद् व्याख्यानं स्वमनीपिकाविज़म्भित, यत उक्तं मूलटीकायां-"जीवे गं भंते | इत्यादि, एषा ओधकायस्थितिः सामान्यजीवापेक्षिणीति सर्वाद्धया निर्वचनम्" । एवं च पृथिवीकायादिष्वप्यदोष:, एतत्सामान्यस्य सवेदेव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामष्टादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्व निर
बशेष बक्तव्यं यथा उपरि तत्पदगतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वारसाहके चेमे गाथे- गइ इंदिए य काए जोगे वेए * कसाय लेसा य । सम्मत्तनाणदसणसंजयउवओगआहारे ॥ १॥ भासगपरित्तपञ्चत्तसुहुम सण्णी भवऽस्थि चरिमे य । एएसिं तु पयाणं
कायठिई होइ नायव्वा ॥ २॥" सूत्रपाठस्तु लेशतो दयते-नेरइया णं भंते ! मेरइयत्ति कालतो केवञ्चिरं होइ ?, गोयमा! जहनेणं दस वाससहस्साई उकोसेणं तेत्तीसं सागरोवमाई। तिरिक्खजोणिए णं भंते ! तिरिक्खजोणियत्ति कालतो केवचिरं होइ !, गोयमा! जहन्नेणं अंतोमुहत्तमुकोसेणमणंतं कालं अणंता उस्सपिणीओसप्पिणीओ कालतो खेत्ततो अणंता लोगा असंखेजा पुग्गलपरियट्टा आवलियाए असंखेज्जाभागो” इत्यादि ॥ सम्प्रति सामान्यपृथिवीकायादिगतकायस्थितिनिरूपणार्थमाह-'पुढविकाइए ण भंते।' इत्यादि, पृथिवीकायिको भदन्त !, सामान्यरूपोऽत एव जातावेकवचनं न व्यत्येकत्वे, पृथिवीकाय इति कालत: कियविरं मवति?, भगवानाह-गौतम! सर्वाद्धा, पृथिवीकायसामान्यस्य सर्वदेव भावात् । एवमप्लेजोवायुवनस्पतित्रसकायसूत्राण्यपि भावनीयानि । सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदे वा कियन्तोऽभिनवा उत्पद्यमानाः पुथिवीकायिकादयः? इत्येतनिरूपणार्थमाह