________________
लक्करा य खरपुढवी । इगवार चोइससोलद्वारबावीससम सहसा || १ | ) ऋणपृथिव्या एकं वर्षसहस्रमुत्कर्षत: स्थितिः, शुद्धथिव्या द्वादश वर्षसहस्राणि वालुकापृथिव्याचतुर्दश सहस्राणि मनःशिलापृथिव्याः षोडश वर्षसहस्राणि शर्करापृथिव्या अष्टादश वर्षसहस्त्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि सर्वासामपि चामीषां पृथिवीनां जघन्येन स्थितिरन्तर्मुहूर्त्त वक्तव्या ॥ सम्प्रति स्थितिनिरूपणाप्रस्तावा और विकादीनां चतुर्विंशतिदण्डकक्रमेण स्थिति निरूपयितुकाम आइ - 'नेरइयाणं भंते !" इत्यादि नैरचिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रशप्ता ?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुवैिशविदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमानदेवानां स्थितिनिरूपणा, इह तु ग्रन्थगौरवभयान्न लिख्यते ॥ तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति काय - स्थितिनिरूपणार्थमाह जीणं इत्यादि, अथ कायस्थितिरिति कः शब्दार्थः ?, उच्यते, कायो नाम जीवस्य विवक्षितः सामान्यरूपी विशेषरूपो वा पर्यायविशेषस्तस्मिन स्थितिः कायस्थितिः किमुक्तं भवति ? -यस्य वस्तुनो येन पर्यायेण - जीवख लक्ष्णेन प्रथिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं स कायस्थितिः, तत्र जीव इति "जीव प्राणधारणे" जीवति - प्राणान् धारयतीति जीवः प्राणाश्च द्विधा - द्रव्यमाणा भावप्राणाश्र, तंत्र द्रव्यमाणा आयुः प्रभूतयः, उक्तश्व - "पश्येन्द्रियाणि त्रिविधं बलं च, उच्चासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥" भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उतथ्य – “ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तेही "ति, इह च विशेषानुपादानादुभयेषामपि प्र हृणं णमिति वाक्यालङ्कारे भदन्त ! जीव इति - जीवनपर्यायविशिष्ट: कालतः - कामधिकृत्य कियश्चिरं भवति ?, भगवानाह - सर्वाद्धां संसार्थवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्तयवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात्, अथवा जीव इवि न एक: