________________
वैक्रियशरीरापेक्षयाऽत्यन्तशुभं स्वच्छस्फटिक शिलेव शुभपुगलसमूहात्मकं ३, तथा तेजसां - तेजः पुद्गलानां विकारस्तैजसे 'विकार' इत्यण्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ततश्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः उक्तं च "सेव्स्स उम्ह सिद्धं रसाइआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥ १ ॥ " ४, तथा कर्मणो जातं कर्मजं, किनुक्तं भवति ? - कर्मपरमाणव एवासप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र का र्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम् — “कैम्मविकारो कम्मणमह विहविचित्तकम्मनिष्कनं । सब्वेर्सि सरीराणं कारणभूयं सुणे ॥ १ ॥" अत्र 'सव्वेसि' मिति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छि भमरोही फार्म व शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्कान्तौ साधकतमं कारणं, तथाहि — कर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरणदेशमपहायोत्पतिदेशमभिसर्पति, ननु यदि तैजससहितकार्मणवपुः परिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छागच्छन् कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुङ्गलानां तैजसपुत्रलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् तथा च परतीर्थिकैरप्युक्तम् - " अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन् वाऽपि नाभावोऽनीक्षणादपि ॥ १ ॥ एतेषां पश्वानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तरनि नामप्राहमुपदर्शयति — तंजहा - ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवस्वभावत एव तलब्धिशून्यत्वात् ।
१ सर्वस्योष्ण्य सिद्धं रसायाहारपाकजनकं च । तेजोनिमित्तं च तैजसं भवति ज्ञातव्यम् ॥ १॥ २ कर्मविकारः कार्मणमष्टविश्वविचित्रक में निष्पनम् । स वैषां शरीराणां कारणभूतं सुणितव्यं ॥ १ ॥