________________
विनेयस्य धर्मः कथनीयः, इत्थमेव सम्यकप्रतिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्लानि, इह शरीराणि पञ्च भवन्ति, तद्यथा-औदारिक वैक्रियमाहारकं तैजसं कार्मणं च, तत्रोदारं-प्रधान, प्राधान्यं चास्त्र तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरसुरशरीरस्थापि
अनन्तगुणहीनलात् , यद्वा उदारं सातिरेक्योजनसहनमानत्वात् शेषशरीरापेक्षया बृहप्रधानं, वृहत्ता चास्य वैक्रिय प्रति भवधारमणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरक्रियं योजनलक्षमानमपि लभ्यते, उदारमेव औदारिक, विनयादिपाठादिकण १, तथा
विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रिय, तथाहि-तदेकं भूत्वाऽनेक भवति अनेक भूत्वा एकं तथाऽणु भूत्या महद्भवति महा भूत्वाऽणु तथा खचरं भूस्खा भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्वाऽदृश्यं भवति अदृश्यं भूखा रश्यमिति, |तच द्विविधम्-औपपातिकं लब्धिप्रत्ययं च, तत्रौपपातिकमुपपातजन्मनिमित्तं, तच देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां २, तथा चितुर्दशपूर्वविदर्दा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते-निर्वय॑ते इत्याहारकं, 'कृद्धहुलक'मिति वचनात्फर्मणि वुन् , यथा पादहारक इत्यत्र, उक्तं च-"जमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिजइ [भगंति आहारगं तं तु ॥ १॥" कार्य चेदम्प णियरिद्धिदसण सुहमपयत्थावगाह वा । संसयवोच्छेयत्वं गमणं जिणपायमूलंमि ॥१॥" एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तनाभवनं जघन्यत एक समयमुत्कर्षतः षण्मासान् यावत् , वक्तंच-"आहारगाह लोगे छम्मासा जा न होतिथि कयाई। उक्कोसेणं नियमा एक समयं जहानेणं ॥ १ ॥" आहारकं प शरीरं
RAAT
कार्य समुपने श्रुतकेवलिना विशिष्टलाभ्या। यदत्राहियते भणन्याहारकं तत्त ॥1॥ २ प्रापिदयाऋद्धिदर्शनसूक्मपदार्थावमाहहेतवे पा । संशय-11 युच्छेदार्थ गमनं जिनपादमूले ॥१॥ ३ आहारकादयो नियमालोके षण्मासान याव भवनअपि कदाचित् । उत्कृष्टतो नियमात् एकं समय जघन्येन ॥1॥