________________
भंते ! हरियकाया हरियकायसया पणत्ता ?, गोयमा ! तओ हरियकाया तओ हरियकायसया पण्णत्ता, फलसहस्सं च बिटबद्धाणं फलसहस्सं च णालबद्धाणं, ते सब्चे हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा २ एवं समणुगाहिजमाणा२ एवं समणुपेहि जमाणा २ एवं समणुचिं तिजमाणा २ एएसु चेव दोसु कापसु समोयरंति, तंजहा-तसकाए चेव थावरकाए चेव, एवमेव सपुवावरेणं आजीवियदिटुंतेणं चउरासीति जातिकुलकोडीजोणीपमुहसतसहस्सा भवंतीति म
क्खाया ॥ (सू० ९८) 'कह ण'मित्यादि, कति भदन्त ! गन्धाङ्गानि, क्वचिद् गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायोपचाराद् गन्धा इति गन्धाङ्गानीति | द्रष्टव्यं प्रज्ञाप्तानि ?, तथा कति गन्धाङ्गशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम! सप्त गन्धाङ्गानि सप्त गन्धानशतानि प्रज्ञप्तानि, इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तशथा-मूलं त्वक् काष्ठं निर्यास: पत्रं पुष्पं फलं च, तत्र मूलं मुस्तावालुकोशीरादि, त्वक् सुवर्ण-18 छल्लीत्वचाप्रभृति, काष्ठं चन्दनागुरुप्रभृति, निर्यासः कर्पूरादिः, पत्रं जातिपत्रतमालपत्रादि, पुष्पं प्रियङ्गुनागरपुष्पादि, फलं जातिफलकर्कोलकैलालवङ्गप्रभृति, एते च वर्णमधिकृत्य प्रत्येक कृष्णादिभेदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत् , गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशत् जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवतीति न्यायात् , तत्राप्येककस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जाता: पञ्चसप्ततिशतं, स्पर्शाश्च | यद्यप्यष्टौ भवन्ति तथाऽपि गन्धालेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एवं मृदुलघुशीतोष्णरूपाततः पश्चसप्ततं शतं स्पर्शचतु
।
-