________________
पण्णत्ते, तंजहा - अंडया पोयया संमुच्छिमा, अंडघा तिविधा पण्णत्ता, तंजहा- इत्थी पुरिसा
पुंसा, पोला विविधा पत्ता, तंजहा- इत्थी पुरिसा णपुंसया, तत्थ णं जे ते संमुच्छिमा से सच्चे णपुंसका ॥ ( सू० १६ )
I
'से किं त' मित्यादि, अथ के ते तिर्यग्योनिकाः ?, सूरिराह - तिर्यग्योनिकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा - एकेन्द्रिया इत्यादि सूत्रं प्रायः सुगमं केवलं भूयान् पुस्तकेषु वाचनाभेद इति यथाऽवस्थित वाचनाक्रमप्रदर्शनार्थमश्र संस्कारमात्रं क्रियते एकेन्द्रिया यावत्पवेन्द्रियाः । अथ के ने एकेन्द्रियाः ?, एकेन्द्रियाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा- पृथिवीकायिका यावद्वनस्पतिकायिकाः । अथ के ते पृथिवीकायिका: ?, पृथिवीकायिका द्विविधाः प्रमाः, तद्यथा - सूक्ष्म प्रथिवीकायिकाञ्च बादरपृथिवीकायिकाञ्च । अथ के ते सूक्ष्मपृथि वीकायिका: ?, सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च । अथ के ते बादरपृथिवीकायिका: ?, बादरपृथि वीकायिका द्विविधाः प्रज्ञतास्तद्यथा-पर्याप्तका अपर्याप्तकाम एवं तावद्वक्तत्र्यं यावद्वनस्पतिकायिकाः । अथ के ते द्वीन्द्रियाः १, ह्रीन्द्रिया द्विविधाः प्रज्ञप्ताः - पर्याप्रका अपर्याप्तकाश्च, एवं त्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः । अथ के ते पश्वेन्द्रियतिर्यग्योनिकाः, पञ्चेन्द्रिय तिर्यग्योनिकास्त्रिविधाः प्रज्ञप्तास्तद्यथा - जलचराः स्थलचराः खचराश्च । अथ के ते जळचरा: ?, जलचरा द्विविधाः प्रज्ञप्तास्तयथा-संमूर्किछमा गर्भव्युत्क्रान्तिका । अथ के ते संमूच्छिना: १, संमूर्तिमा द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाल । अथ
^
१ अण्डजव्यतिरिकाः सर्वेऽपि जरायुजा अजरायुजा वा गर्भव्युत्क्रान्तिकाः प्रवेन्द्रिया अत्रैवान्तर्भावनीया इति न चतुर्विधा, समाधास्त्रति चैवममे, केवलमन्त्र जरायुजतया पक्षिणामप्रसिद्धेः न समाधैरादृतिः.