________________
त्तिर्यगादिषु चोत्तरवैक्रियावस्थानकालमानमाह-भित्रः-खण्डो मुहूती भिन्नमुहूर्तः अन्त हूर्तमित्यर्थः, नरकेषकर्षतो विकुर्वणास्थितिकालः,
तिर्यममुध्येषु वस्त्रार्यन्तर्मुहूर्तानि, देवेष्वर्द्धमास उत्कर्षतो विकुर्वणाऽवस्थानकालः भणितः एष उत्कर्षतो विकुर्वणाऽवस्थानकालो भणि४ सस्तीर्थफरगणधरैः ॥ सम्प्रति नरकेष्वाहारादिस्वरूपमाह-ये पुद्गला अनिष्टा नियमात्स तेषां भवत्याहारः, 'संस्थानं तु' संस्वानं पुन
तेषां हुण्ड हुण्डमपि जघन्यमतिनिकृष्टमनिष्टं वेदितव्यं, एतच भवधारणीयशरीरमधिकृत्य वेदितव्यम् , उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात् , इयं च प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोषः ॥ सम्प्रति विकुर्बणाखरूपमाह-सर्वेषां नैरयिकाणां विकुर्वणा 'ख' मिश्चितमशुभा भवति, यद्यपि शुभं विकुर्विष्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकूलकोद्यतस्तेषामशुभैव विकुर्बणा भवति, तदपि च वैकिथं-उत्तरवैक्रियशरीरमसंहननम् , अस्थ्यभावात् , उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं, तथा हुण्डसंस्थानं तत् उन्तरवैक्रियशरीरं, हुण्डसंस्थाननाम्न एव भवप्रत्ययत उदयभावात् ॥ कश्चित् जीव: 'सर्वास्वपि पृथिवीषु' रत्नप्रभादिषु तमस्तमापर्यन्तासु सर्वेष्वपि च "स्थितिविशेषेषु' जघन्यादिरूपेषु 'असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपि प्राग्भवमरणकालानुभूतमहादुःखानुवृत्तिभावात् , उत्पत्त्यनन्तरमपि 'असात एव' असातोदयकलित एव सकलमपि निरयभवं 'त्यजति क्षप
यति, न तु जातुचिदपि सुखलेशमप्यास्वादयति ।। आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते, भवति, तथा| ४ चाह–'उववाएण' इत्यत्र सप्तभ्यर्थे तृतीया, उपपातकाले सात' सातवेदनीयकर्मोदयं कश्चिद्वेद्यते, यः प्राग्भवे दापच्छेदादिव्यतिरेकेण
मरणमुपगतोऽनतिसजिष्टाध्यवसायी समुत्पद्यते, तदानी हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं नापि क्षेत्रखभावजं नापि परमाधामिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्यते, 'देवकम्मणा वावि' इति देवकर्मणा