SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ त्तिर्यगादिषु चोत्तरवैक्रियावस्थानकालमानमाह-भित्रः-खण्डो मुहूती भिन्नमुहूर्तः अन्त हूर्तमित्यर्थः, नरकेषकर्षतो विकुर्वणास्थितिकालः, तिर्यममुध्येषु वस्त्रार्यन्तर्मुहूर्तानि, देवेष्वर्द्धमास उत्कर्षतो विकुर्वणाऽवस्थानकालः भणितः एष उत्कर्षतो विकुर्वणाऽवस्थानकालो भणि४ सस्तीर्थफरगणधरैः ॥ सम्प्रति नरकेष्वाहारादिस्वरूपमाह-ये पुद्गला अनिष्टा नियमात्स तेषां भवत्याहारः, 'संस्थानं तु' संस्वानं पुन तेषां हुण्ड हुण्डमपि जघन्यमतिनिकृष्टमनिष्टं वेदितव्यं, एतच भवधारणीयशरीरमधिकृत्य वेदितव्यम् , उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात् , इयं च प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोषः ॥ सम्प्रति विकुर्बणाखरूपमाह-सर्वेषां नैरयिकाणां विकुर्वणा 'ख' मिश्चितमशुभा भवति, यद्यपि शुभं विकुर्विष्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकूलकोद्यतस्तेषामशुभैव विकुर्बणा भवति, तदपि च वैकिथं-उत्तरवैक्रियशरीरमसंहननम् , अस्थ्यभावात् , उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं, तथा हुण्डसंस्थानं तत् उन्तरवैक्रियशरीरं, हुण्डसंस्थाननाम्न एव भवप्रत्ययत उदयभावात् ॥ कश्चित् जीव: 'सर्वास्वपि पृथिवीषु' रत्नप्रभादिषु तमस्तमापर्यन्तासु सर्वेष्वपि च "स्थितिविशेषेषु' जघन्यादिरूपेषु 'असातः' असातोदयकलित उपपन्नः, उत्पत्तिकालेऽपि प्राग्भवमरणकालानुभूतमहादुःखानुवृत्तिभावात् , उत्पत्त्यनन्तरमपि 'असात एव' असातोदयकलित एव सकलमपि निरयभवं 'त्यजति क्षप यति, न तु जातुचिदपि सुखलेशमप्यास्वादयति ।। आह-किं तत्र कदाचित्सातोदयोऽपि भवति येनेदमुच्यते ?, उच्यते, भवति, तथा| ४ चाह–'उववाएण' इत्यत्र सप्तभ्यर्थे तृतीया, उपपातकाले सात' सातवेदनीयकर्मोदयं कश्चिद्वेद्यते, यः प्राग्भवे दापच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसजिष्टाध्यवसायी समुत्पद्यते, तदानी हि न तस्य प्राग्भवानुबद्धमाधिरूपं दुःखं नापि क्षेत्रखभावजं नापि परमाधामिककृतं नापि परस्परोदीरितं तत एवंविधदुःखाभावादसौ सातं कश्चित् वेदयते इत्युच्यते, 'देवकम्मणा वावि' इति देवकर्मणा
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy